________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंशाधिकरणम् . प्रकाशादिवत् नैवं परः॥ ब्रह्मांशत्वेऽपि जीवस्य, जीवो यत्स्वरूपो मत्स्वभावश्च, नैवं परः-निरवद्यः सर्वज्ञः सत्यसङ्कल्प एव सर्वदा । कयं? प्रकाशादिवत् ; प्रकाशविशिष्टानां मणिप्रभृतीनां प्रकाशः विशिष्टैकदेशत्वेन यथांशः ; आदिशब्दाद्विशेषणतैकस्वभावजातिगुणशरािणि गृह्यन्ते । विशेषणा नां विशिष्टैकदेशतया तदंशत्वेऽपि विशेषणविशेष्ययोः स्वरूपस्वभावभेदो न विरुद्धः ; १ "य आत्मनि तिष्ठन्यस्याऽत्मा शरीरम्” इति हि श्रुतिः ॥ ४५ ॥
स्मरन्ति च ॥ चिचिदात्मकजगतो ब्रह्मांशत्वं प्रकाशादिवदिति पराशरादयः स्मरन्ति२ "एकदेशस्थितस्याग्नेः ज्योत्मा विस्तारिणी यथा । परस्य ब्रह्मणशक्तिस्तथेदमखिलं जगत्"३ 'तत्सर्व वै हरेस्तनुः" 'तानि सर्वाणि तब पुः" इत्यादिषु ॥ ४६॥ __अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्।।ब्रह्मांशत्वेऽपि सर्वजी. वानां कस्यचिद्वेदाध्ययनादौ अनुशा, कस्यचित् परिहारः, इत्येतो ब्राह्मणादिदेहविशेषसम्बन्धादुपपद्यते; यथान्यादेः श्रोत्रियागारश्मशानादिसम्बन्धात्॥
असन्ततेश्चाव्यतिकरः॥ प्रतिदेहं भिन्नत्वात् , अणुत्वेन तत्रतत्र परिच्छन्नत्वाच, झानसुखाद्यव्यतिकरः। अज्ञानोपाधिभ्यां ब्रह्मैव सम्पभ्यते इति पक्षद्वयेऽपि न तत्तद्यवस्था॥ ४८॥
आभासा एव च ॥ पक्षद्वयेऽपि हेतवश्च आभासाः ॥ ४९॥
अदृष्टानियमात् ॥ सत्यमिथ्योपाधिकृतत्वेऽपि आत्मनां ब्रह्मणः एव अक्षानमुपाधिश्च इति तत्तत्कृतेनादृष्टादिनापि न नियमः ॥ ५० ॥
अभिसन्ध्यादिष्वपि चैवम् ॥अदृष्टहेतुभूताभिसन्ध्यादिवपि चैवमेव
प्रदेशभेदादिदिति चेन्नान्तर्भावात् ।।उपाधिसम्बन्धिब्रह्मप्रदेशभेदात् व्यवस्था- इति चेत्न, उपाधिषु गच्छत्सु सर्वप्रदेशानां तदन्तर्भावात् ॥
इति वेदान्तसारे अंशाधिकरणम् ॥ ७॥ इति श्रीभगवद्रामानुजविरविरचिते श्रीवेदान्तसारे
द्वितीयस्याध्यायस्य तृतीयः पादः ॥ ३॥
१. बृ. ५-७-२२ ॥-२. वि-पु. १.२२.५६ ॥–३. वि-पु. १-२२-३८ ॥-४. नि-पु. १.२२.८६ ॥
For Private And Personal Use Only