________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घेदान्तसारे
[म. २. अभिसन्ध्यादिष्वपि चैवम् । २।३।५१॥
अदृष्टहेतुभूताभिसन्ध्यादिष्वप्युक्तादेव हेतोरनियम एव ॥५१॥ प्रदेशभेदादिति चेन्नान्तर्भावात्। २।३।५२॥
यद्यप्येकमेव ब्रह्मस्वरूपम् , तच्छेदानह नानाविधोपाधिभिस्स. म्बध्यते; तथाप्युपाधिसम्बन्धिब्रह्मप्रदेशभेदादुपपद्यत एव भोगव्यवस्थेति चेत्-तन्न, उपाधीनां तत्रतत्र गमनात्सर्वप्रदेशानां सर्वोपाध्यन्त वायतिकरस्तदवस्थ एव । प्रदेशभेदेन सम्बन्धेऽपि सर्वस्य ब्रह्मप्रदेशत्वात्तत्तत्मदेशसम्बन्धि दुःखं ब्रह्मण एव स्यात्। पूर्वत्र १ "नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो बाऽन्यथा" २ "उपलब्धिवदनियमः" इत्याभ्यां सूत्राभ्यां वेदबाह्यानां सर्वगतजीववादिनां दोष उक्तः अत्र तु३ "आभास एव च" इत्यादिभिस्सूत्रैर्वेदावलम्बिनामात्मैकत्ववादिनां दोष उच्यते ॥
__इति श्रीशारीरकमीमांसाभाष्ये अंशाधिकरणम् ॥ ७ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये
द्वितीयस्याध्यायस्य तृतीयः पादः॥३॥
वेदान्तसारे-अंशो नानाव्यपदेशादन्यथाचापि दाशकितवादि त्वमधीयत एके ॥ जीवात्मा परमपुरुषांशः, ४'पृथगात्मानं प्रेरितारं च मत्वा"५"स कारणं करणाधिपाधिपः" इत्यादिनानाव्यपदेशात्; अन्यथा६"तत्वमसि" ७"अयमात्मा ब्रह्म" इति ऐक्योपदेशाच८"ब्रह्म दाशाः" इत्यादिसर्व. जीवानामप्यैक्यमधीयत एके ; अंशत्वाभ्युपगमेाभयं मुख्यं भवति ॥ ४२ ॥
मन्त्रवर्णात् ॥ ९"पादोऽस्य विश्वा भूतानि” इति मन्त्रवर्णाश्च ॥४३॥ अपिस्मयते॥१० "ममैवांशो जीवलोके जीवभूतस्सनातनः" इत्यादिना ॥
१॥-२॥-३.शारी.२-३, ३२,३६,४९॥-४. श्वे. १.६ ॥-५. श्वे, ६.९ ॥६. छा. ६.१-३ -७. ६-४-५ ॥८.-९, पुरुषसूक्तम् ॥ १०.गी.१५-७ ॥
For Private And Personal Use Only