________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३. ]
अंशाधिकरणम्
असन्ततेश्वाव्यतिकरः । २ । ३ । ४८ ॥
ब्रह्मांशत्यादिनैकरूपत्व सत्यपि जीवानामन्योन्यभेदादणुत्वेन प्रतिशरीरं भिन्नत्वाच्च भोगव्यतिकरोऽपि न भवति । भ्रान्तब्रह्मजीववादे चोपहितब्रह्मजीववादे च जीवपरयोर्जीवानां च भोगव्यतिकरादयस्सर्वे दोषास्सन्तीत्यभिप्रायेण स्वपक्षे भोगव्यतिकराभाव उक्तः ॥ ४८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ननु भ्रान्तब्रह्मजीववादेऽप्यविद्याकृतोपाधिभेदाद्भोगव्यवस्थादय उपपद्यन्ते ; अत आह-
वशाद्वयवस्था भविष्यतीत्याशङ्कयाह
१६३
आभास एव च । २ । ३ । ४९ ॥ अखण्डैकरसप्रकाशमात्त्रस्वरूपस्य स्वरूपतिरोधानपूर्वकोपाधिभेदोपपादन हेतुराभास एव प्रकाशैकस्वरूपस्य प्रकाशतिरोधानं प्रकाशनाश एवेति प्रागेवोपपादितम् । 'आभासा एव' इति वा पाठ: तथासति हेतव आभासाः, चकारात् "पृथगात्मानं प्रेरितारं च मत्वा " २ " ज्ञाज्ञौ द्वौ " “ तयोरन्य: पिप्पलं स्वाद्वत्ति" इत्यादिश्रुतिविरोधश्व । अविद्यापरिकल्पितोपाधिभेदेऽपि सर्वोपाधिभिरुपहितस्वरूप स्यैकत्वाभ्युपगमात् भोगव्यतिकरस्तदवस्थ एव ।। ४९ ।।
पारमार्थिकोपाध्युपहितब्रह्मजीववादेऽप्युपाधिभेद हेतु भूतानाद्यदृष्ट
For Private And Personal Use Only
अदृष्टानियमात् । २ । ३ । ५० ॥
उपाधिपरम्परा हेतुभूतस्यादृष्टस्यापि ब्रह्मस्वरूपाश्रयत्वेन नियमहेत्वभावादव्यवस्थैव,उपाधिभिरदृष्टैश्च स्वसम्बन्धेन ब्रह्मस्वरूपच्छेदासम्भवात् ।। ५० ।।
१ ॥―२. श्वे. १-६, ९ ॥ -- ३. वे. ४-६ ॥