________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
श्रीशारीरकमीमांसाभाष्ये भि. २. जीवपरयोविशेषणविशेष्यत्वकृतं स्वभाववैलक्षण्यमाश्रित्य भेदनिर्देशाः प्रवर्तन्ते; अभेदनिर्देशास्तु पृथक्सियनहविशेषणानां विशेष्यपर्यन्तत्वमाश्रित्य मुख्यत्वेनोपपद्यन्ते। १“ तत्त्वमसि" २ "अयमात्मा ब्रह्म" इत्यादिषु, तच्छब्दब्रह्मशब्दवत् त्वमयमात्मेतिशब्दा अपि जीवशरीरकब्रमवाचकत्वेनैकार्थाभिधायित्वादित्ययमर्थः प्रागेव अपश्चितः॥४५॥
स्मरन्ति च । २।३।४६ ॥ एवं प्रभाप्रभावपेण शक्तिशक्तिमद्रपेण शरीरात्मभावेन चांशांशिभावं जगद्ब्रह्मणोः पराशरादयःस्मरन्ति३"एकदेशस्थितस्यानेज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणश्शक्तिस्तथेदमखिलं जगत्" ४" यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज | तस्य सृज्यस्य सम्भूतौ तत्सवे वै हरेस्तनुः" इत्यादिना। चकराच्छ्रतयोऽपि-५“यस्यात्मा शरीरम्" इत्यादिना आत्मशरीरभावनांशांशित्वं वदन्तीत्युच्यते ॥ ४६॥
एवं ब्रह्मणोंऽशत्वे,ब्रह्मपवर्त्यत्वे, ज्ञत्वे च सर्वेषां समाने केषांचिदेदाध्ययनतदर्थानुष्ठानाद्यनुज्ञा, केषांचित्तत्परिहारः, केषांचिद्दर्शनस्पर्शनाद्यनुज्ञा, केषांचित्तत्परिहारश्च, शास्त्रेषु कथमुपपद्यत इत्याशङ्कयाहअनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरा
दिवत् । २ । ३ । ४७॥ सर्वेषां ब्रह्मांशत्वज्ञत्वादिनैकरूपत्वे सत्यपि ब्राह्मणक्षत्रियवैश्यशूद्रादिरूपशुच्यशुचिदेहसम्बन्धनिबन्धनावनुज्ञापरिहारावुपपद्यते ज्योतिरादिवत्-यथाग्नेरनित्वेनैकरूपत्वेऽपि श्रोत्रियागारादग्निराहियते ; इम शानादेस्तु परिहियते ; यथाचान्नादि श्रोत्रियादेरनुज्ञायते ; अभिशस्तादेस्तु परिहियते ॥१७॥
१. छा. ६-१०-३ ॥-२. . ६-४.५ ॥ ३. वि. पु. १-२२-५६॥-४. वि. पु. १-२२-३८ ॥-५, ३. ५-७-२२ ॥
For Private And Personal Use Only