________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
अंशाधिकरणम्. नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" इत्यादिश्रुतिभ्य ईश्वरानेदस्यात्मनां बहुत्वनित्यत्वयोश्चाभिधीयमानत्वात् । एवं नित्यानामात्मनां बहुत्वे प्रामाणिके सति ज्ञानस्वरूपत्वेन सर्वेषामेकरूप. त्वेऽपि भेदकाकारः आत्मयाथात्म्यवेदनक्षमैरवगम्यते । १“असन्ततश्चा. व्यतिकरः" इत्यनन्तरमेवचात्मबहुत्वं वक्ष्यति ॥ ४३ ॥
अपि स्मयते । २।३।४४॥ २"ममैवांशो जीवलोके जीवभूतस्सनातनः" इति जीवस्य पुरुषो. तमांशत्वं स्मयते ; अतश्चायमंशः॥ ४४ ॥
अंशत्वेऽपि जीवस्य ब्रह्मैकदेशत्वेन जीवगता दोषा ब्रह्मण एवेत्याशङ्कयाहप्रकाशादिवत्तु नैवं परः । २।३।४५॥
तुशब्दश्चोधं व्यावर्तयति ; प्रकाशादिवजीवः परमात्मनोंऽशः. यथाऽनयादित्यादेर्भावतो भारूपः प्रकाशोंऽशो भवति, यथा गवाश्वशुक्लकृष्णादीनां गोत्वादिविशिष्टानां वस्तूनां गोत्वादीनि विशेषणान्यंशाः, यथा वा देहिनो देवमनुष्यादिदेहोंऽशः तद्वत्।एकवस्त्वेकदेशत्वं वंशत्वम्, विशिष्टस्यैकस्य वस्तुनो विशेषणमंश एव। तथाच विवेचकाः विशिष्टे वस्तुनि विशेषणांशोऽयम्, विशेष्यांशोयमिति व्यपदिशन्ति । विशेषणविंशेष्ययोरंशांशित्वेऽपि स्वभाववैलक्षण्यं दृश्यते। एवं जीवपरयोर्विशेषणविशेष्ययोरंशांशित्वं, स्वभावभेदश्वोपपद्यते। तदिदमुच्यते-नैवं पर इति। य थाभूतो जीवः,न तथाभूतः परः। यथैवहि प्रभायाः प्रभावानन्यथाभूतः, तथा प्रभास्थानीयात्स्वांशाज्जीवादशी परोऽप्यर्थान्तरभूत इत्यर्थः । एवं
१. शारी २-३-७ ॥-२. गी. १५-७ ॥
*21
For Private And Personal Use Only