________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाम्वे [भ. २. ब्रह्मदासा ब्रह्मे मे कितवाः" इत्याथर्वणिका ब्रह्मणो दाशकितवादित्वमप्यधीयते । ततश्च सर्वजीवव्यापित्वेनाभेदो व्यपदिश्यत इत्यर्थः। एवमुभयन्यपदेशमुख्यत्वसिद्धये जीवोऽयं ब्रह्मणोंश इत्यभ्युपगन्तव्यः । नच भेदव्यपदेशानां प्रत्यक्षादिप्रसिद्धार्थत्वेनान्यथासिद्धत्वम् , ब्रह्मसृज्यत्वत नियाम्यत्वतच्छरीरत्वतच्छेषत्वतदाधारत्वतत्पाल्यत्वतत्संहार्यत्वतदुपासकत्वतत्प्रसादलभ्यधर्मार्थकाममोक्षरूपपुरुषार्थभाक्त्वादयस्तत्कृतश्च जीवनह्मणोर्भेदः, प्रत्यक्षाद्यगोचरत्वेनानन्यथासिद्धः। अतो न जगत्सृष्टयादिवादिनीनां प्रमाणान्तरसिद्धभेदानुवादेन मिथ्यार्थोपदेशपरत्वम् । नचाखण्डैकरसचिन्मात्रस्वरूपेण ब्रह्मणा मात्मनोऽतद्भावानुसन्धानम्, बहुभवनसङ्कल्पपूर्वकवियदादिसृष्टिं,जीवभावेन तत्प्रवेशं, विचित्रनामरूपव्याकरणं,तत्कृतानन्तविषयानुभवनिमित्तसुखदुःखभागित्वम्,अभोक्तृत्वेन तत्र स्थित्वा तनियमनेनान्तर्यामित्वं, जीवभूतस्य स्वस्य कारणब्रह्मात्मभावानुसन्धानं, संसारमोक्षं, तदुपदेशशास्त्रं च कुर्वाणेन भ्रमितव्यमित्युपदिश्यते, तथा सत्युन्मत्तप्रलपितत्वापातात् । उपाध्यवच्छिन्नं ब्रह्म जीव इत्यपि न साधीयः, पूर्वनिर्दिष्टनियन्तृत्वनियाम्यत्वादिव्यपदेशबाधादेव । नहि देवदत्तादेरेकस्यैव गृहायुपाधिभेदानियन्तृनियाम्यभावादिसिदिः। अत उभयव्यपदेशोपपत्तये जीवोऽयं ब्रह्मणोंश इत्यभ्युपेत्यम् ॥ ४२ ॥
मन्त्रवर्णात् । २।३ । ४३॥ ___ १"पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि" इति मन्त्रव
च ब्रह्मणोंशो जीवः । अंशवाची हि पादशब्दः । “विश्वा भूतानि" इति जीनानां बहुत्वाद्भहुवचनं मन्त्रे, मूत्रेऽपि अंश इत्येकवचनं जात्यभिप्रायम् । १"नात्माश्रुतेः" इत्यत्राप्येकवचनं जात्यभिप्रायम् , ३"नित्यो
१. पुरसम् ॥-२. सारी, २-३-१८॥-६. थे, ६-१३ ॥
For Private And Personal Use Only