SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३. ] अंशाधिकरणम् , वैवायमर्थो निर्णीतः। सत्यम् स एव नानात्वैकत्वश्रुतिविप्रतिपस्या आक्षिप्य जीवस्य ब्रह्मांशत्वोपपादनेन विशेषतो निर्णीयते; यावद्धि जीवस्य ब्रह्मांशत्वं न निर्णीतम्, तावज्जीवस्य ब्रह्मणोऽनन्यत्वं ब्रह्मणस्तस्मादधिकत्वं च न प्रतितिष्ठति । किं तावत्प्राप्तम् ? अत्यन्तभिन्न इतिः कुतः ? २ “ ज्ञाज्ञौ द्वावजावीशनीशौ" इत्यादिभेदनिर्देशात्। ज्ञानयोरभेदश्रुतयस्तु 'अग्निना सिञ्चेत् ' इतिवद्विरुद्धार्थप्रतिपादनादौपचारिक्यः । ब्रह्मणोऽशो जीव इत्यपि न साधीयः, एकवस्त्वेकदेशवाची शशब्दः, जीवस्य ब्रह्मैकदेशत्वे तद्वता दोषा ब्रह्मणि भवेयुः । न च ब्रह्मखण्डो जीव इत्यंशत्वोपपत्तिः, खण्डनानर्हत्वाद्ब्रह्मणः, प्रागुक्तदोषप्रसङ्गाच्च । तस्मादत्यन्तभिन्नस्य च तदंशत्वं दुरुपपादम् । यद्वा भ्रान्तं ब्रह्मैव जीवः, कुतः २“ तत्त्वमसि” ३“अयमात्मा ब्रह्म" इत्यादिब्रह्मात्मभावोपदेशात् । नानात्ववादिन्यस्तु प्रत्यक्षादिसिद्धार्थानुवादित्वादनन्यथासिद्धाद्वैतोपदेशपराभिः श्रुतिभिः प्रत्यक्षादय इवाविद्यान्तर्गताः ख्याप्यन्ते । अथवा ब्रह्मैवानाद्युपाध्यवच्छिन्नं जीवः । कुतः, तत एव ब्रह्मात्मभावोपदेशात् । नचायमुपाधिर्भ्रान्तिपरिकल्पित इति वक्तुं शक्यम्, बन्धमोक्षादिव्यवस्थानुपपत्तेः – इति ॥ एवं प्राप्तेऽभिधीयते ब्रह्मांश इति । कृतः । नानाव्यपदेशात्, अन्यथाच - एकत्वेन व्यपदेशात् । उभयधाहि व्यपदेशो दृश्यते । नानात्वन्यपदेशस्तावत्स्वष्टत्वसृज्यत्वनियन्तृत्वनियाम्यत्व सर्वज्ञत्वासत्व स्वाधीनत्वपराधीनत्वशुद्धत्वा शुद्धत्व कल्याणगुणाकरत्व तद्विपरीतत्वपतित्वशेषत्वादि - भिर्दृश्यते । अन्यथाच अभेदेन व्यपदेशोऽपि २" तत्त्वमसि " ३" अयमात्मा ब्रह्म" इत्यादिभिर्दृश्यते । अपि दाशकितवादित्वमधीयत एके " ब्रह्मदाशा १. . १-९॥२, ६-१०-३ ॥३. सु. ६-४-५॥४॥ For Private And Personal Use Only १५९
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy