________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
श्रीशारीरकमीमांसाभाग्ये पेक्ष्य तदनुमतिदानेन परः प्रवर्तयति इति तद्विधिनिषेधावैवर्थ्यनिग्रहानुग्रहेभ्योऽवगम्यते। यथा गुरुतरदादिभरणमबलः प्रबलसहकृतः कुर्वन्नपि स्वीय प्रयत्नेन विधिनिषेधयोग्यो भवति । एवमेव जीवः परमपुरुषानुमतिसहकृत प्रवर्तमानोऽपि विधिनिषेधयोग्य इति न कश्चिंद्विरोधः॥४१॥
इति वेदान्तसारे परायत्ताधिकरणम् ॥ ६॥
वेदान्तदीपे-परात्तु तच्छृतेः॥ कृतप्रयत्नापेक्षस्तु विहितपतिषिद्धावैयादिभ्यः॥ इदानी जीवस्य कर्तृत्वं किं परमात्मायत्तम् ! उत खायत्तमितिसंशयः। स्वायत्तमिति पूर्वः पक्षः, विधिनिषेधशास्त्रानर्थक्यापत्तेः यस्वषुद्ध्यैव प्रवृत्तिनिवृत्तिशक्तः स एव हि नियोज्यो निग्रहानुग्रहास्पदं च भवतीति । राधान्तस्तु १ 'अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" २ “य आस्मानमन्तरो यमयति' इत्यादिश्रुतेः परमात्मायत्तमेव कर्तृत्वम् ; तच जीवेन खबुद्धया कृतं प्रयत्नमपक्ष्य तदनुमतिदानेनेति विधिनिषेधावैयथ्यम्; अतएव निग्रहानुग्रहास्पदं च । सूत्रद्वयमपि व्याख्यातम् ॥४१॥
इति वेदान्तदीपे परायसाधिकरणम् ॥ ६ ॥
----(श्रीशारीरकमीमांसाभाष्ये अंशाधिकरणम् ॥ ७॥)-..
अंशो नानाव्यपदेशादन्यथाचापि दाशकितवादि
त्वमधीयत एके । २।३।४२॥
जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम् । इदानी किमयं जीवः परस्मादत्यन्तभिन्नः, उत परमेव ब्रह्म भ्रान्तम्, उत ब्रह्मैवोपाध्यवछिन्नम् , अथ ब्रह्मांश इति संशय्यते ; श्रुतिविप्रतिपत्तेस्संशयः । ननु ३" तदनन्यत्वमारम्भणशब्दभ्यः" ४“अधिकं तु भेदनिर्देशात्" इत्य
१. ते, भारण. ३-११-२० ॥–२. इ. ५-७-२२ ॥-३, शारी, २-१-१५॥-४.
शारी. २.१.२२ ॥
For Private And Personal Use Only