________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
पराबत्ताधिकरणम्. तरानुमतिमन्तरेण नोपपद्यते ; अथापीतरानुमतेः खेनैव कृतमिति तत्फलं खस्यैव भवति । पापकर्मसु निवर्तनशक्तस्याप्यनुमन्तृत्वं न निर्दयत्वमाबहतीति साङ्ख्यसमयनिरूपणे प्रतिपादितम् । नन्वेवम् १ "एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तं यमधो निनीषति" इत्युन्निनीषयाऽधोनिनीषया च स्वयमेव साध्वसाधुनी कर्मणी कारयतीत्येतन्नोपपद्यते । उच्यते-एतन्न सर्वसाधारणम् , यस्त्वतिमात्रपरमपुरुषानुकूल्ये व्यवस्थितः प्रवर्तते; तमनुगृह्णन् भगवान् स्वयमेव स्वप्राप्त्युपायेष्वतिकल्याणेषु कर्मस्खेव रुचिं जनयति । यतिमात्रप्रातिकूल्ये व्यवस्थितः प्रवर्तते ; २तं निगृह्णन् स्वप्राप्तिविरोधिध्वधोगतिसाधनेषु कर्मसु रुचिं जनयति । यथोक्तं भगवता स्वयमेव ३"भई सर्वस्य प्रभवो मत्तस्सर्वे प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः" इत्यारभ्य ४"तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते" ५“तेषामेवानुकम्पार्थमहमज्ञानजं तमः नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता" इति। तथा ६"असत्यमप्रतिष्ठ ते जगदाहुरनीश्वरम्" इत्यादि "मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका" इत्यन्तमुक्त्वा ८"तानहं द्विषतः ऋरान् संसारेषु नराधमान् । क्षिपाम्यजत्रमशुभानासुरीष्वेव योनिषु" इत्युक्तम् ॥ ४१॥
इति श्रीशारीरकमीमांसाभाष्ये परायत्ताधिकरणम् ॥ ६ ॥
वेदान्तसारे-परात्तुतच्छ्रतेः।। ९ य आत्मानमन्तरो यमयति" इत्या. दिश्रुतेरात्मनः कर्तृत्वं परायत्तम्, १०" सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिनिमपोहनश्च" इत्यादिस्मृतेश्च ॥ ४० ॥
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयादिभ्यः॥ जीवः स्खेछया प्रवृत्तिनिवृत्तिहेतुभूतं प्रयत्नं करोति, जीवेन तु कृतं प्रयत्नं प्रथमप्रवृत्तिहेतुम
१. कौषी. ३.९ ।। २. तं स्वप्राप्तिविरोधिषु अधोगतिसाधनेषु कर्मच सज्जयति. पा॥ ३. गी. १०-८॥-४-५. गी. १०-१०,११ ॥-६.गी. १६-८ ॥-७, गी, १६. १८॥-८. गा, १६-१९ ॥-९. वृ. ५-७-२२ ॥-१०. गी. १५-१५ ।।
For Private And Personal Use Only