________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--(श्रीशारीरकमीमांसाभाष्ये परायत्ताधिकरणम् ॥ ६॥)...
परात्तुतच्छ्रुतेः । २॥ ३॥ ४०॥ इदं जीवस्य कर्तृत्वं किं स्वातन्त्रयेण ? उत परमात्मायत्तमिति । किं प्राप्तम् ? स्वातन्त्रयेणेति। परमात्मायत्तत्वे हि विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत । यो हि स्वबुद्ध्या प्रवृत्तिनिवृत्त्यारम्भशक्तः स एव नियोज्यो भवति। अत स्वातन्त्रयेणास्य कर्तृत्वम् ।।
--- (सिद्धान्तः).. इति प्राप्तेऽभिधीयते-परात्तुतच्छुतेः-इति । तुशब्दः पक्षं न्यार तयति; तत्-कर्तृत्वं अस्य-जीवस्य परात्-परमात्मन एव हेतोभवति, कुतः श्रुतेः-१“अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" २ "य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" इति । स्मृतिरपि ३ “स
स्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिः ज्ञानमपोहनं च" ४" ईश्वरस्सवभूतानां हृदेशेर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया" इति ॥४०॥
नन्वेवं विधिनिषेधशास्त्रानर्थक्यं प्रसज्येतेत्युक्तम् ; तलाहकृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयादिभ्यः ।
२।३।४१॥ सर्वासु क्रियासु पुरुषेण कृतं प्रयत्नम् उद्योगमपेक्ष्यान्तर्यामी परमात्मा तदनुमतिदानेन प्रवर्तयति । परमात्मानुमतिमन्तरेणास्य प्रवृत्तिों पपद्यत इत्यर्थः।कुत एतत् ? विहितप्रतिषिद्धावैयादिभ्यः-आदिशब्देनाअग्रहनिग्रहादयो गृह्यन्ते । यथा दयोस्साधारणे धने परस्वत्वापादनमन्य१. ते. भारण. ३.११-१०॥-२, वृ. ५-७-२२ ॥--३, गी, १५-१५॥-४, गी.
For Private And Personal Use Only