________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५
पा ३.]
कधिकरणम्. वेदान्तदीपे-कर्ता शास्त्रार्थवत्त्वात्।। आत्मनो ज्ञातृत्ववत्कर्तृत्वमप्यस्ति, नेति संशयः । प्रधानस्यैव कर्तृत्वादात्मनो न कर्तृत्वमस्ति इति पूर्वः पक्षः। १ "अहङ्कारविमूढात्मा कर्ताऽहमितिमन्यते"२"नान्यं गुणेभ्यः कर्तारम्" इत्यादिषु गुणानामेव कर्तृत्ववचनात् । राद्धान्तस्तु-स्वर्गापवर्गसाधनानुष्ठानविधानशास्त्राणामर्थवत्त्वाय कतैवात्मा, बोयरेव हि शासनम् ; नाचेतनस्य प्रधानस्य । "यजेत" "उपासीत' इति कर्तरि लकारः। अतः कर्तारमेव बोधयति शास्त्रम् । सूत्रमपि व्याख्यातम् ॥ ३३॥
उपादानाद्विहारोपदेशाच ॥ उपादानात् उपदिश्यमानात्, विहारोपदेशाच । उपदिश्यते उपादानं, विहारश्च, ३ "एवमेवैष एतान्प्राणान्गृहीत्वा खे शरीरे यथाकामं परिवर्तते” इति उपादानविहारयोः कर्तृत्वोपदेशाच कर्ता ॥ ३४॥
व्यपदेशाच क्रियायां न चेनिर्देशविपर्ययः॥ ४"विज्ञानं यचं तनुते कर्माणि तनुतेऽपिच' इति यज्ञादिकर्मस्वात्मनः कर्तृत्वोपदेशाच कर्ता । वि. शानशब्देन नात्मनो व्यपदेशः,अपित्वन्तःकरणरूपबुद्धेरेवेति चेत्-तथासति विज्ञानेनेति करणविभक्तिनिर्देशस्स्यात् ॥ ३५ ॥
उपलब्धिवदंनियमः ॥ प्रधानस्य कर्तृत्वेन आत्मनो भोक्तृत्वमिति पक्षे पूर्वोक्तोपलब्ध्यनियमवत्प्रधानस्य सर्वसाधारणत्वात् भोक्तृत्वानियमः । भन्तःकरणभेदेऽपि सर्वेषामात्मनां सर्वगतत्वेन साधारण्यमनिवार्यम् ॥ ३६ ॥
शक्तिविपर्ययात् ।। बुद्धः कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वायोगात् भोक्तृत्वशक्तिरपि बुद्धेरेवेति आत्मनो भोक्तृत्वशक्तिविपर्ययः-हानिरित्यर्थः ॥
समाध्यभावाच ॥ प्रकृतेः कर्तृत्वे मोक्षसाधनभूतसमाध्यभाषश्च स्यात् । 'प्रकृतेरन्योस्मीति' समाधाने प्रकृतेः कर्तृत्वायोगात् ॥ ३८॥
यथा च तक्षोभयधा । आत्मनः कर्तृत्वेऽपि ‘भोगवाञ्छायां करोति, अन्यथा न करोति' इत्युभयप्रकारव्यवस्थोपपद्यते; यथा तक्षा स्वकार्ये इच्छया व्यवस्थितः। बुद्धः कर्तृत्वे अचेतनत्वेन खेच्छाया अभावाद्यवमा न सिभ्यतीत्यभिप्रायः ॥ ३९ ॥
इति वेदान्तदीपे कत्रधिकरणम् ॥ ५ ॥
१. नी. १४.९ ॥-२. गी. १५-२० ॥-३. वृ. ४-१-१८॥-४. ते. आन.५-१॥
For Private And Personal Use Only