________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे
[म.२ नन्वात्मनः कर्तृत्वेऽभ्युपगम्यमाने सर्वदा कर्तृत्वानोपरमेतेत्यत्राह
यथा च तक्षोभयधा । २॥ ३॥ ३९॥
वागादिकरणसम्पन्नोऽप्यात्मा यदेच्छति, तदा करोति, यदा तु नेच्छति, तदा न करोति; यथा तक्षा वाश्यादिकरणसनिधानेऽपि इच्छानुगुण्येन करोति, न करोति च । बुद्धस्त्वचेतनायाः कर्तृत्वे तस्याः भो. गवाञ्छादिनियमकारणाभावात्सर्वदा कर्तृत्वमेव स्यात् ॥ ३९॥
इति श्रीशारीरकमीमांसाभाप्ये कधिकरणम् ॥ ५ ॥ वेदान्तसारे-कर्ता शास्त्रार्थवत्त्वात्। माता सन्नयमात्मा कर्मसु कर्ता च । आत्मनः अकर्तृत्वे, 'कुर्यात् न कुर्यात्' इति शास्त्रानर्थक्यं स्यात् ॥
उपादानाद्विहारोपदेशाच॥ १"प्राणान् गृहीत्वा शरीरे यथा कामं परिवर्तते" इत्युपादानविहारोपदेशाच्च कर्ता ॥ ३४॥
व्यपदेशाच क्रियायां न चेनिर्देशविपर्ययः।। २"विज्ञानं यज्ञं तनुते" इत्यादिना यशादौ कर्तृत्वव्यपदेशाच्च कर्ता । विज्ञानशब्दो बुद्धः, नात्मनः इति चेत्, न । तदा विज्ञानेन इति निर्देशविपर्ययः स्यात् , बुद्धेः करणत्वात् ॥ ३५॥
उपलब्धिवदनियमः ।। प्रकृतेरेव कर्तृत्वे तस्यास्सर्वसाधारणत्वेन पू. वोपलब्ध्यनियमवत् फलानियमस्स्यात् ॥ ३६॥
शक्तिविपर्ययात् ॥ प्रकृतेरेव कर्तृत्वे कर्तुरेव भोक्तृत्वमिति सैव भोक्री स्यादित्यर्थः ॥ ३७॥
समाध्यभावाच ॥ प्रकृतेरेव कर्तृत्वे "प्रकृतेरन्योऽस्मि” इति समाभ्यभावप्रसङ्गाश्च ॥ ३८॥
यथा च तक्षोभयधा ॥ आत्मनः कर्तृत्वे 'इच्छायां करोति, अन्यथा न करोति' इति व्यवस्था च सिध्यति । यथा तक्षा स्वकार्येषु । बुद्धरिच्छाभावात् न व्यवस्था, चेतनधर्मत्वादिच्छायाः॥३९॥
इति वेदान्तसारे कर्नधिकरणम् ॥ ५ ॥
-
१. वृ. ४-१-१८॥-२. ते. आन. ५. १॥
For Private And Personal Use Only