________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] कधिकरणम्
१५३ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः।२।३।३५
१"विज्ञानं यज्ञं तनुते कर्माणि तनुतेपिच" इति लौकिकवैदिकक्रियासु कर्तृत्वव्यपदेशाच कर्ता । विज्ञानशब्देन नात्मनो न्यपदेशः; अपित्वन्तःकरणस्य बुद्धरितिचेत्-एवंसति निर्देशविपर्ययस्स्यात्-बुदेः करणत्वाद्विज्ञानेनेति करणविभक्तिनिर्देशस्स्यात् ॥ ३५ ॥
उपलब्धिवदनियमः। २॥ ३॥ ३६॥
आत्मनोऽकर्तृत्वे दोष उच्यते । यथाऽऽत्मनो विभुत्वे नित्योपलध्यनुपलब्धिप्रसङ्ग इत्यादिनोपलब्धेरनियम उक्तः ; तद्वदात्मनोऽकर्तृत्वे प्रकृतेश्च कर्तृत्वे तस्यास्सर्वपुरुषसाधारणत्वात्सर्वाणि कर्माणि सर्वेषां भोगा य स्युः नैव वा कस्य चित्।आत्मनां विभुत्वाभ्युपगमात्सन्निधानमपि सर्वेपामविशिष्टम् । अतएव चान्तःकरणादीनामपि नियमो नोपपद्यते ; यदायत्ता व्यवस्था स्यात् ॥ ३६ ॥
शक्तिविपर्ययात् । २।३। ३७॥ बुद्धेः कर्तृत्वे कर्तुरन्यस्य भोक्तृत्वानुपपत्तेोक्तृत्वशक्तिरपि तस्याएव स्यादित्यात्मनो भोक्तृत्वशक्तिहीयेत । भोक्तृत्वं च बुद्धेरेव संपद्यत इति आत्मसद्भावे प्रमाणाभावश्च स्यात्। २" पुरुषोऽस्ति भोक्तृभावात् " इति हि तेषामभ्युपगमः ॥ ३७॥
समाध्यभावाच्च । २।३।३८॥ बुद्धः कर्तृत्वे मोक्षसाधनभूतसमाधावपि सैव कर्ली स्यात्। स च समाधिः प्रकृतेरन्योऽस्मीत्येवंरूपः, नच प्रकृतेरन्योऽस्मीति प्रकृतिस्समाधातुमलम् । अतोऽप्यात्मैव कर्ता ॥ ३८ ॥
१. तै. भान. ५-१ ।।-२. सांस्यतत्वकौमुदी. २७. पा॥
*20
For Private And Personal Use Only