________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
श्रीशारीरकमीमांसाभाष्ये
[अ. २. ... (सिद्धान्तः)--- एवं प्राप्ते प्रचक्ष्महे–कर्ता शास्त्रार्थवत्त्वात्-इति। आत्मैव कर्ता न गुणाः, कस्मात् ? शास्त्रार्थवत्त्वात् । शास्त्राणि हि 'यजेत स्वर्गकामः' 'मुमुक्षुब्रह्मोपासीत' इत्येवमादीनि स्वर्गमोक्षादिफलस्य भोक्तारमेव कर्तृत्वे नियुञ्जते ; नह्यचेतनस्य कर्तृत्वेऽन्यो नियुज्यते । शासनाच्च शास्त्रम् शासनं च प्रवर्तनम्। शास्त्रस्य च प्रवर्तकत्वं बोधजननद्वारेण अचे तनं च प्रधानं न बोधयितुं शक्यम् । अतः शास्त्राणामर्थवत्त्वं भोक्तुश्चेतनस्यैव कर्तृत्वे भवेत् । तदुक्तं १“शास्त्रफलं प्रयोक्तरि" इति । यदुक्तं २ "हन्ता चेन्मन्यते" इत्यादिना हननक्रियायामकर्तृत्वमात्मनः श्रूयत इति । तदात्मनो नित्यत्वेन हन्तव्यत्वाभावादुच्यते । यच्च ३"प्रकृतेः क्रियामाणानि" इत्यादिना गुणानामेव कर्तृत्वं स्मयत इति ; तत्सांसारिकप्रवृत्तिष्वस्य कर्तृता सत्त्वरजस्तमोगुणसंसर्गकृता; न स्वरूपप्रयुक्तेति प्राप्ताप्राप्तविवेकेन गुणानामेव कर्तृतेत्युच्यते । तथा च तत्रैवोच्यते ४“ कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु" इति। तथा तत्रैवात्मनश्च कर्तृत्वमभ्युपेत्योच्यते ५“तत्रैवं सति कर्तारमात्मानं केवलं तु यापश्यत्यकृतबुद्धित्वान स पश्यति दुर्मतिः" इति । ६"अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्" इत्यधिष्ठानादिदैवपर्यन्तसापेक्षे सत्यात्मनः कर्तृत्वे य आत्मानमेव केवलं कर्तारं मन्यते, न स पश्यतीत्यर्थः ॥ ३३॥
उपादानाद्विहारोपदेशाच्च ।।३।३४॥
७“स यथा महाराजः" इति प्रकृत्य, ७" एवमेवैष एतान् गृहीत्वा खेशरीरे यथाकामं परिवर्तते " इति प्राणानामुपादाने विहारे च कर्तृत्वमुपदिश्यते ॥ ३४ ॥
१. पूर्वमीमांसान्यायः ॥-२. कष्ठ. २-१९॥-३. गी. ३-२७॥-४, गी, १३. २१॥-५. गो. १८-१६॥-६. गी. १८-१४॥-७. वृ. ४.१.१८॥
For Private And Personal Use Only