________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५१
पा. ३.]
कत्रधिकरणम्. यम् । शानस्य सर्वदा वर्तमानत्वात्सर्वदोभयप्रसक्तिः । अथ युगपद्विरुद्धकार्यजननायोगात् ज्ञानमुपलब्ध्यनुपलब्ध्योरन्यतरहेतुरास्थीयते । तदाऽन्यतरनिय. मस्स्यात् । सर्वगतत्वपक्षे यथा ज्ञानात्मवादिनाम् , तथैव हेतुजन्यशानवादिनोपि सर्वेषामात्मनां सर्वगतत्वे सर्वस्यात्ममनस्संयोगादे हेतोस्सर्वेषां साधारणत्वात् उक्तरीत्या तथैव प्रसक्तिः। अदृष्टोत्पत्तिहेतोरपि सर्वस्य साधारणत्वाददृष्टे नापि न व्यवस्था ॥३२॥
इति वेदान्तदीपे ज्ञाधिकरणम् ॥ ४ ॥
- (श्रीशारीरकमीमांसाभाष्ये कब्रधिकरणम् ॥ ५॥an
कर्ता शास्त्रार्थवत्त्वात् । २ । ३ । ३३ ॥
अयमात्मा ज्ञाता, स चाणुपरिमाण इत्युक्तम् इदानीं किं स एव कर्ताः उत स्वयमकतैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते । किं युक्तम् , अकतैवात्मेति, कुतः ? आत्मनो ह्यकर्तृत्वम्, गुणानामेव च कर्तृत्वमध्यात्मशास्त्रेषु श्रूयते।तथाहि कठवल्लीषु जीवस्य "न जायते म्रियते" इत्यादिना जन्मजरामरणादिकं सर्व प्रकृतिधर्म प्रतिपिध्य हननादिषु क्रियासु कर्तृत्वमपि प्रतिषिध्यते-२"हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते" इति। हन्तारमात्मानं जानन जानात्यात्मानमित्यर्थः। तथा च भगवता स्वयमेव जीवस्याकतृत्वं स्वरूपम् ; कतृत्वाभिमानस्तु व्यामोह इत्युच्यते३"प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते" "नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति"५"कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते"इति च । अतः पुरुषस्य भोक्तृत्वमेव प्रकृतेरेव तु कर्तृत्वम्-इति।।
१. कठ, २-१८॥-२, कठ, २.१९॥-३. गी. ३-२७ ॥–४. गी.१४-१९ ॥
५, गी. १३-२०॥
For Private And Personal Use Only