________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३. ]
शाधिकरणम्.
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् । २।३।३१
तुशब्दवोदिताशङ्कानिवृत्त्यर्थः । अस्य ज्ञानस्य सुषुप्त्यादिष्वपि विद्यमानस्य जागर्यादिष्वभिव्यक्तिसम्भवात्स्वरूपानुबन्धिधर्मत्वोपपत्तिः ; पुंस्वादिवत् - यथा पुंस्त्वाद्यसाधारणस्य धातोर्वाल्यावस्थायां सतोऽप्यनभिव्यक्तस्य युवत्वेऽभिव्यक्तौ पुंसस्तद्वत्ता न कादाचित्की भवति । सप्तधातुमयत्वं हि शरीरस्य स्वरूपानुबन्धि- १ तत्सप्तधातु त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरम्" इति शरीरस्वरूपव्यपदेशात् । सुषुप्त्यादिष्वप्यहमर्थः प्रकाशत इति प्रागेवोक्तम् । तस्य विद्यमानस्य ज्ञानस्य विषयगोचरत्वं जागर्यादावुपलभ्यते एते चात्मनो ज्ञातृत्वादयो धर्माः प्रागेवोपपादिताः । अतो ज्ञातृत्वमेव जीवात्मनः स्वरूपम् स चायमात्माऽणुपरिमाणः२‘“न प्रेत्य संज्ञाऽस्ति”इत्यपि न मुक्तस्य ज्ञानाभाव उच्यते; अपि तु २ “एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति" इति संसारदशायां यद्भूतानुविधायित्वप्रयुक्तं जन्मनाशादिदर्शनम्, तन्मुक्तस्य न विद्यते - २" न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् सर्व ह पश्यः पश्यतिसर्वमाप्नोति सर्वशः” ४‘“नोपजनं स्मरन्निदं शरीरम्" ५" मनसैतान् कामान् पश्यत्रमते " इत्यादिश्रुत्यैकार्थ्यात् ॥ ३१ ॥
सम्पति ज्ञानात्मवादे तस्य सर्वगतत्वे दूषणमाह
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वा
Acharya Shri Kailassagarsuri Gyanmandir
*19
ऽन्यथा । २ । ३ । ३२ ॥
अन्यथा सर्वगतत्वपक्षे तस्य ज्ञानमात्रत्वपक्षे च नित्यमुपलब्ध्यनुपलब्धी सहैव प्रसज्येयाताम् ; अन्यतरनियमो वा - उपलब्धिरेव वा नित्यं स्यात्, अनुपलब्धिरेव वा एतदुक्तं भवति - लोके तावद्वर्तमानयोरा
१४५
१॥ -- २. बृ. ४-४-१२ ॥ - ३. छा. ७-२६-२॥ - ४. छा. ८-१२-३॥ - ५. छा. ८-१२-५ ॥
For Private And Personal Use Only