________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
वेदान्तसारे
[अ. २. त्मोपलब्ध्यनुपलब्ध्योरयं ज्ञानात्मा सर्वगतो हेतुस्स्यात् उपलब्धेरेव वा, अनुपलब्धेरेव वा उभयहेतुत्वे सर्वदा सर्वतोभयं प्रसज्येतःयापलब्धेरेव, सर्वस्य सर्वदा सर्वत्रानुपलम्भो न स्यात्। अथानुपलब्धेरेव,सर्वदा सर्वलोपलब्धिर्न स्यात्-इति। अस्माकं शरीरस्यान्तरेवावस्थितत्वादात्मनस्तवैवोपलब्धिर्नान्यति व्यवस्थासिद्धिः । करणायत्तोपलब्धेरपि सर्वेषामात्मनां सर्वगतत्वेन सर्वैः करणैस्सर्वदा संयुक्तत्वाददृष्टादेरप्यनियमादुक्तदोषस्समानः ॥ ३२ ॥
। इति श्रीशारीरकमीमांसाभाष्ये ज्ञाधिकरणम् ॥ ४ ॥
वेदान्तसारे-ज्ञोऽतएव ॥ १"अथ यो वेदेदं जिघ्राणीति स आत्मामनसैतान कामान पश्यन्रमते' २“य एते ब्रह्मलोके' इत्यादिश्रुतेः बद्धो मुक्त श्वात्मा ज्ञातैव २'मनोऽस्य दैवं चक्षुः" इति श्रुतेः स्वधर्मभूतं ज्ञानं मनः ॥१९॥
उत्क्रान्तिगत्यागतीनाम् ॥ उत्क्रान्तिगत्यागतीनां श्रुतेरणु यः॥२०॥
खात्मना चोत्तरयोः॥ गत्यागत्योस्स्वात्मनैव संपाद्यत्वादप्यणुत्वं निश्चितम् ॥२१॥
नाणुरतच्छ्रतरिति चेन्नेतराधिकारात् ॥ ३ “स वा एष महानज आत्मा" इति श्रुतेः नाणुः इतिचेत्-न ४“ यस्यानुवित्तः प्रतिबुद्ध आत्मा” इति परमात्माधिकारात् ॥२२॥
खशन्दोन्मानाभ्याश्च ॥ ५“एषोऽणुरात्मा” इत्यणुशब्दात् ६" आराप्रमात्रो ह्यवरः" इत्युद्धत्य उन्मानशब्दाचाणुः ॥२३॥
अणोरपि सकलदेहव्यापिवेदनानुभवे अन्यमते न हेतुमाह
अविरोधश्चन्दनवत् ॥ यथा चन्दनबिन्दुरेकदेशस्थोऽपि सकलदेहज्यापि सुखं जनयति, तद्वदविरोधः ॥ २४॥
अवस्थितिवशेष्यादितिचेन्नाभ्युपगमाद्धदि हि ॥देशविशेषस्थितेश्च
१. छा. ८-१२-४॥--२, छा. ८-१२-५॥३. यू. ६-४-२४॥--४. इ. ६-४. १३ ॥-५. मु. ३-१-९॥---६. श्वे. ५-८॥
For Private And Personal Use Only