________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीशारीरकमीमांसाभाष्ये
Acharya Shri Kailassagarsuri Gyanmandir
१४४
विपरिलोपो विद्यते " इति ॥ २८ ॥
१
यत्क्तं ?" यो विज्ञाने तिष्ठन् " २ " विज्ञानं यज्ञं तनुते " ३ "ज्ञानस्वरूप - मत्यन्तनिर्मलम्" इत्यादिषु ज्ञानमेवात्मेति व्यपदिश्यत इति, तवाहतद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् | २|३|२९||
[अ. २.
तुशब्दश्रोधं व्यावर्तयति तद्गुणसारत्वात्- विज्ञानगुणुसारत्वात् आत्मनो विज्ञानमिति व्यपदेशः । विज्ञानमेवास्य सारभूतो गुणः, यथा प्राज्ञस्यानन्दस्सारभूतो गुण इति प्राज्ञ आनन्दशब्देन व्यपदिश्यते - ४" यदेष आकाश आनन्दो न स्यात् " ५ " आनन्दो ब्रह्मेति व्यजानात्" इति; प्राज्ञस्य ह्यानन्दस्सारभूतो गुणः - ६" स एको ब्रह्मण आनन्द: "७" आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन" इति । यथावा "सत्यं ज्ञानमनन्तं ब्रह्म" इति विपश्चितः प्राज्ञस्य ज्ञानशब्देन व्यपदेश:: " सह ब्रह्मणा विपश्चिता" ९" यस्सर्वज्ञः" इत्यादिषु प्राज्ञस्य ज्ञानं सारभूतो गुण इति विज्ञायते ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् | २ | ३ |३०||
८
१. बृ. ५-७-२२ ।।—२ तै, आन. ५-१ ॥ आन, ७-१ ॥ —५. तै. भृ. ६-१ ॥ - ६. तै. आन तै.
-८० आन. १-१, २ ॥ – ९. मु. १-१-९॥
विज्ञानस्य यावदात्मभावधर्मत्वात्तेन तद्व्यपदेशो न दोषः तथाच खण्डादयो यावत्स्वरूपभाविगोत्वादिधर्मशब्देन गौरिति व्यपदिश्यमाना दृश्यन्तेः खरूपनिरूपणधर्मत्वादित्यर्थः । चकारात् ज्ञानवदात्मनोऽपि स्वप्रकाशत्वेन विज्ञानमिति व्यपदेशो न दोष इति समुचिनोति ॥ ३० ॥ यच्चोक्तं सुषुप्त्यादिषु ज्ञानाभावात् ज्ञानस्य न स्वरूपानुबन्धिधर्मत्वमिति, तत्राह -
For Private And Personal Use Only
२. वि. पु. १-२-६ ॥ —४.तै. ८-४ ॥ - ७ तै. आन. ९-१ ॥