SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पा. ३.] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाधिकरणम्. १४३ हरिचन्दनविन्द्वादेर्देहदेशविशेषवस्थितिविशेषात्तथाभावः, आत्मनस्तु तन्न विद्यत इति चेन्न; आत्मनोऽपि देहदेशविशेषे स्थित्यभ्युपगमात्; हृदयदेशे ह्यात्मनः स्थितिः श्रूयते "हृदि ह्ययमात्मा तत्रैकशतं नाडीनाम्” इति; तथा २"कतम आत्मा" इति प्रकृत्य २" योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः" इति। आत्मनो देशविशेषस्थितिख्यापनाय चन्दनदृष्टान्तः प्रदर्शितः; न तु चन्दनस्य देशविशेषापेक्षा || २५ ॥ एकदेशवर्तिनस्सकलदेहन्यापि कार्यकरत्वप्रकारं स्वमतेनाहगुणाद्वाऽऽ लोकवत् । २ । ३२६॥ वाशब्दो मतान्तरव्यावृत्त्यर्थः ; आत्मा स्वगुणेन ज्ञानेन सकलदेहं व्याप्यावस्थितः ; आलोकवत् - यथा मणिद्युमणिप्रभृतीनामेकदेशवर्तिनामालोकोऽनेकदेशव्यापी दृश्यते, तद्वद्धृदयस्थस्यात्मनो ज्ञानं सकलदेहं व्याप्य वर्तते ; ज्ञातुः प्रभास्थानीयस्य ज्ञानस्य स्वाश्रयादन्यत्र वृत्तिमणिप्रभावदुपपद्यत इति प्रथमसूत्रे स्थापितम् ।। २६ । ननूक्तं ज्ञानमात्रमेवात्मेति ; तत्कथं ज्ञानस्य स्वरूपव्यतिरिक्तगुणत्वमुध्यते ; तत्राहव्यतिरेको गन्धवत्तथा च दर्शयति । २।३।२७ ॥ यथा पृथिव्याः गन्धस्य गुणत्वेनोपलभ्यमानस्य ततो व्यतिरेकः, तथा जानामीति ज्ञातृगुणत्वेन प्रतीयमानस्य ज्ञानस्यात्मनो व्यतिरेकस्सिद्धः दर्शयति च श्रुतिः ३" जानात्येवायं पुरुषः " इति ॥ २७ ॥ पृथगुपदेशात् । २ । ३ । २८ ॥ स्वशब्देनैव विज्ञानं विज्ञातुः पृथगुपदिश्यते ४ " नहि विज्ञातुर्विज्ञाते १. प्रश्न. ३-६ ॥ २६-३७॥३॥ - ४.६-३-३० ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy