________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२ श्रीशारीरकमीमांसाभाष्ये
[अ. २. स्ते स्वात्मनैव सम्पाये ॥२१॥
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात्।।३।२२॥ ___ १“योऽयं विज्ञानमयः प्राणेषु" इति जीवं प्रस्तुत्य २“स वा एष महानज आत्मा" इति महत्त्वश्रुतेः नाणुर्जीव इति चेन्न; इतराधिकारात्-जीवादितरस्य प्राज्ञस्य तत्राधिकारात्; यद्यप्युपक्रमे जीवः प्रस्तुतः, तथापि ३" यस्यानुवित्तः प्रतिबुद्ध आत्मा" इति मध्ये परः प्रतिपाद्यत इति तत्सम्बन्धीदं महत्त्वम् न जीवस्य ॥ २२॥
स्वशब्दोन्मानाभ्यांच ।२।३।२३॥ ___ साक्षादणुशब्द एव श्रूयते ४" एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश" इति उद्धत्य मानमुन्मानम् ; अणुशदृशं वस्तूदत्य तन्मानत्वं जीवस्य श्रूयते ५ "वालाग्रशतभागस्य शतधा कल्पितस्य चाभागो जीवस्स विज्ञेयः” इति;६"आराग्रमात्रो खवरोऽपि दृष्टः" इतिच । अतोऽणुरेवायमात्मा ॥२३॥
___ अथ स्यात्-आत्मनोऽणुत्वे सकलशरीरव्यापिनी वेदना नोपप. द्यत इति । तत्र मतान्तरेण परिहारमाह
अविरोधश्चन्दनवत्। २३॥ २४॥ यथा हरिचन्दनबिन्दुबैहैकदेशवहँपि सकलदेहव्यापिनमाहादं जनयति, तद्वदात्माऽपि देहैकदेशवर्ती सकलदेशवर्तिनी वेदनामनुभवति॥ अवस्थितिवशेष्यादितिचेन्नाभ्युपगमा
दिहि । २।३।२५॥ १.स. ६.३.७ ॥-२.६ ६-४-२५||-३. वृ. ६.४-१३॥-४. मु. ३-१.९॥
-५, श्रे. ५.९॥-६. श्वे. ५.८ ॥
For Private And Personal Use Only