________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] शाधिकरणम्.
१४१ स आत्मा"३"मनसैवैतान् कामान् पश्यत्रमते य एते ब्रह्मलोके" २"सत्यकामस्सत्यसङ्कल्पः"३"नोपजनं स्मरन्निदं शरीरम्" अन्यत्रापि "न पश्यो मृत्यु पश्यति" तथा वाजसनेयके ५" कतम आत्मा" इति पृष्ट्वा ६"योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः" इति तथा "विज्ञातारमरे केन विजानीयात्" "जानात्येवायं पुरुषः" तथा ९"एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः" १० "एनमेवास्य परिद्रष्टुरिमाष्षोडशकलाः" इति ॥ १९ ॥ ___यचूक्तं ज्ञातृत्वे स्वाभाविके सति सर्वगतस्य तस्य सर्वदा सर्वत्रोपलब्धिः प्रसज्यत इति । तत्रोच्यते
उत्क्रान्तिगत्यागतीनाम् ।२।३।२०॥
नायं सर्वगतः, अपित्वणुरेवायमात्मा ; कुतः ? उत्क्रान्तिगत्यागतीनां श्रुतेः; उत्क्रान्तिस्तावच्छूयते ११"तेन प्रद्योतेनैष आत्मा निष्कामति चक्षुषो वा मृों वाऽन्येभ्यो वा शरीरदेशेभ्यः" इति। गतिरपि १२"येवै केचास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति" इति। आगतिरपि १३ तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे" इति। विभुत्वे येता उत्क्रान्त्यादयो नोपपद्येरन् ॥२०॥
स्वात्मना चोत्तरयोः ।२।३।२१॥
चशब्दोऽवधारणे । यद्यपि शरीरवियोगरूपत्वेनोत्क्रान्तिः स्थितस्याप्यात्मनः कथंचिदुपपद्यते; गत्यागती तु न कथंचिदुपपद्यते । अत
१. छा. ८.१२-४ ।। -२. छा. ८-७-१ ॥- ३. छा. ८.१२-३ ।।–४. छा. ७-२६-२ ।।---५, ६. वृ. ६-३-७ ।।- ७. बृ. ६-५-१५ ।। -८ ॥--९. प्रश्न.४-९॥ --१०. प्रश्न. ६-५ ।।--११. ब. ६-४-२॥-१२. कौषी. १-२ ॥-- १३. पू.
For Private And Personal Use Only