________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
श्रीशारीरकमीमांसाभाष्ये रूप्यते । किं सुगतकपिलाभिमतचिन्मात्रमेवात्मनस्स्वरूपम् ; उत कणभुगभिमतपाषाणकल्पस्वरूपमचित्स्वभावमेवागन्तुकचैतन्यगुणकम् ; अथ ज्ञातृत्वमेवास्य स्वरूपमिति । किंयुक्तम् ? चिन्मात्रमिति ; कुतः तथा श्रुतेः । अन्तर्यामिब्राह्मणेहि १" य आत्मनि तिष्ठन्" इति माध्यन्दिनीयपर्यायस्य स्थाने १“यो विज्ञाने तिष्ठन्" इति काण्वा अधीयते । तथा २ "विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपिच"इति कर्तुरात्मनो विज्ञानमेव स्वरूपं श्रूयते । स्मृतिषु च ३ "ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः" इत्यादिष्वात्मनो ज्ञानस्वरूपत्वं प्रतीयते । अपरस्तु-जीवात्मनो ज्ञानत्वे ज्ञातृत्वे च स्वाभाविकेऽभ्युपगम्यमाने तस्य सर्वगतस्य सर्वदा सर्वत्रोपलब्धिप्रसङ्गात्,करणानां च वैयर्थ्यात्,सुषुप्तिमूर्छादिषु सतोऽप्यात्मनचैतन्यानुपलब्धेर्जाग्रतस्सामग्रयां सत्यां ज्ञानोत्पत्तिदर्शनादस्य न ज्ञानं खरूपम् ; नापि ज्ञातृत्वम् आगन्तुकमेव चैतन्यम् सर्वगतत्वं चात्मनोऽवश्याभ्युपेत्यम् , सर्वत्र कार्योपलब्धेः सर्वत्रात्मनस्सन्निधानाभ्युपगमाच्छरीरगमनेनैव कार्यसम्भवे सति गतिकल्पनायां प्रमाणाभावाच । श्रुतिरपि सुषुप्तिवेलायां ज्ञानाभावं दर्शयति-४"नाह खल्वयमेवं सम्पत्यात्मानं जानात्ययमहमस्मीवि नो एवेमानि भूतानि" इति। तथा मोक्षदशायां ज्ञानाभावं दर्शयति-५"न प्रेत्य संज्ञा स्ति" इति। ३ "ज्ञानवरूपम्" इत्यादिप्रयोगस्तु ज्ञानस्य तदसाधारणगुणत्वेन लाक्षणिक इति ॥
एवं प्राप्ते प्रचक्ष्महे-ज्ञोऽत एव-ज्ञ एव-अयमात्मा ज्ञातृत्वस्वरूप एव, न ज्ञानमात्रम्,नापि जडस्वरूपः कुतः? अत एव-श्रुतेरेवेतत्यर्थः। "नात्मा श्रुतेः" इति प्रकृता श्रुतिः अतइति शब्देन परामृश्यते। तथा छान्दोग्ये प्रजापतिवाक्ये मुक्तामुक्तात्मस्वरूपकथने १" अथ यो वेदेदं जिघ्राणीति
१. बृ. ५-७-२२ ॥-२. तै. आन. ५-१।। ---- ३. वि. पु. १-अं. २-अ. ६-लो। -४. छा. ८-११-२।।-५. बृ. ६-५-१३ ॥
For Private And Personal Use Only