________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३९
पा. ३.]
साधिकरणम्. कारणोभयावस्थावस्थितमपि सर्वदा निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पत्वाद्यपरिमितोदारगुणसागरमवतिष्ठते । प्रकारभूतचिदचिद्वस्तुगताः अपुरुषार्थाः स्वरूपान्यथाभावाश्चेति सर्व समञ्जसम् ॥ १८ ॥
इति श्रीशारीरकमीमांसाभाष्ये आत्माधिकरणम् ॥ ३ ॥
वेदान्तसारे-नात्मा श्रुतेनित्यत्वाच ताभ्यः।।नात्मा उत्पद्यते,१"न जायते म्रियते" इति श्रुतेः,२"नित्यो नित्यानाम्" इत्यादिश्रुतिभ्यो नित्यत्वावगतेध ॥१८॥
इति वेदान्तसारे आत्माधिकरणम् ॥ ३ ॥
वेदान्तदीपे-नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः॥ किमात्मोत्पद्यते, न वेतिसंशयः । उत्पद्यत इति पूर्वः पक्षः। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादेः, ३"तोयेन जीवाव्यससर्ज भूम्याम्" ४"प्रजापतिः प्रजा असृजत" इत्यादि सृष्टिवचनाच नित्यादिश्रुतिराकाशाद्यमृतत्ववचनवनेया । राद्धान्तस्तु-नात्मोत्पद्यते, अनुत्पत्तिश्रुतेः; १"न जायते म्रियते वा विपश्चित्" इति जीवोत्पतिनिषिध्यते;"अजो नित्यः'२"नित्यो नित्यानाम्" इत्यादिश्रुतिभ्यो नित्यत्वावगमात् । जीवोत्पत्तिपक्षे अकृताभ्यागमकृतविप्रणाशादिप्रसङ्गात्, वैषम्यनै ण्यप्रसङ्गाश । जीवस्य सृष्टिवचनं भोक्तृत्वानुगुणज्ञानविकासाभिप्रायम् । प्राक्सृष्टेरेकत्वावधारणादविभागवचनं नामरूपविभागाभावाभिप्रायम् । सूत्रमपि व्याख्यातम् ॥१८॥
इति वेदान्तदीपे आत्माधिकरणम् ॥ ३ ॥
---(श्रीशारीरकमीमांसाभाष्ये ज्ञाधिकरणम् ॥ ४ ॥)...
ज्ञोऽत एव । २।३॥१९॥ वियदादिवजीवो नोत्पद्यत इत्युक्तम् , तत्पसङ्गेन जीवस्वरूपं नि१. कठ. २-१८॥-२. थे, १-१३ ॥-३. तै. अम्भ. १-१॥–४. यजु. २. अष्टा।
For Private And Personal Use Only