________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
श्रीशारीरकमीमांसामान्ये [भ. २. सोम्यैकेन" इत्यादिना निदर्शितः । ईदृशज्ञानसङ्कोचविकासकरतत्तदेहसम्बन्धवियोगाभिप्रायाः जीवस्योत्पत्तिमरणवादिन्यः,"प्रजापतिः प्रजा भसृजत" इत्याद्याः श्रुतयः । अचिदंशवत्स्वरूपान्यथात्वाभावाभिप्राया उत्पत्तिप्रतिषेधवादिन्यो नित्यत्ववादिन्यश्च २" न जायते म्रियते" इत्याधाः, ३"नित्यो नित्यानाम्" इत्याद्याश्च श्रुतयः। स्वरूपान्यथात्वज्ञानसकोचविकासरूपोभयविधानिष्टविकाराभावाभिप्रायाः ४"सवा एष महानज आत्माऽजरोऽमरोऽमृतो ब्रह्म" ३"नित्यो नित्यानाम्" इत्याचाः परविषयाः श्रुतयः । एवं सर्वदा चिदचिदस्तुविशिष्टस्य ब्रह्मणः प्राक्सटेरेकत्वावधारणं च नामरूपविभागाभावादुपपद्यते।५"तद्धेदं तीव्याकतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इतिहि नामरूपविभागभावाभावाभ्यां नानात्वैकत्वे वदति-इति।ये त्वविद्योपाधिकं जीवत्वंवदन्ति,येच पारमाथिकोपाधिकृतम्,येच सन्मानस्वरूपं ब्रह्म स्वयमेव भोक्तभोग्यनियन्तरूपेण विधाऽवस्थितं वदन्ति:सर्वेऽप्येते अविद्याशक्तरुपाधिशक्तेर्भोक्तभोग्यनियन्तृशक्तीनां च प्रलयकालेऽवस्थानेऽपि तदानीमेकत्वावधारणं नामरूपविभागाभावादेवोपपादयन्ति। ६"वैषम्यनैघृण्ये न सापेक्षत्वात्""न कर्माविभागादितिचेन्नानादित्वादुपपद्यते चाप्युपलभ्यतेच"इति सूत्राभ्यां जीवभेदस्य तत्कर्मप्रवाहस्पचानादित्वाभ्युपगमाच । इयान्विशेषः-एकस्यानाद्यविद्यया ब्रह्म स्वयमेव मुह्यति, अन्यस्य पारमार्थिकानाधुपाधिना ब्रह्मस्वरूपमेव बध्यते, उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् । अपरस्य ब्रह्मैव विचित्राकारेण परिणमते, कर्मफलानिचानिष्टानि भुते नियन्त्रशस्य भोक्तृत्वाभावेऽपि सर्वज्ञत्वात्स्वस्मादभिनं भोक्तारमनुसंदधातीति खयमेव भुतेः अस्माकं तु स्थूलसूक्ष्माबस्थचिदचिद्वस्तुशरीरं ब्रह्म कार्य
१. यजु, अष्ट. २॥-२. कठ. २-१८॥-३. श्वे. ६.१३॥-४ 1. ६-४-२५॥ -५. . ३.४-७ ॥-६, ७. शारी. २-१-३४, ३५ ॥
For Private And Personal Use Only