________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
आत्माधिकरणम् . नात्मोत्पद्यते। कथं तडॅकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपद्यते इत्थमुपपद्यतेजीवस्यापि कार्यत्वात्कार्यकारणयोरनन्यत्वाच । एवं तर्हि वियदादिवदुत्पत्तिमत्त्वमङ्गीकृतं स्यातः नेत्युच्यते-कार्यत्वं हि नामैकस्य द्रव्यस्यावस्थान्तरापत्तिः, तज्जीवस्याप्यस्त्येव । इयांस्तु विशेषः वियदादेरचेतनस्य यादृशोऽन्यथाभावो न तादृशो जीवस्य ज्ञानसङ्कोचविकासलक्षणो जीवस्यान्यथाभावः; वियदादेस्तु स्वरूपान्यथाभावलक्षणः । सेयं स्वरूपान्यथाभावलक्षणोत्पत्ति वे प्रतिषिध्यते । एतदुक्तं भवति–भोग्यभोक्तृनियन्तन् विविक्तस्वभावान् प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं भोतरि प्रतिषिध्य तस्य नित्यतां च प्रतिपाद्य भोग्यगतमुत्पत्त्यादिकं, भोक्तृगतं चापुरुषार्थाश्रयत्वं नियन्तरि प्रतिषिध्य तस्य नित्यत्वं, निरवद्यत्वं, सर्वदा सर्वज्ञत्वं, सत्यसङ्कल्पत्वं, करणाधिपाधिपत्वं, विश्वस्य पतित्व, च प्रतिपाद्य सर्वावस्थयोश्चिदचितोस्तं प्रति शरीरत्वं, तस्य चात्मत्वम् , प्रतिपादितम् । अतस्सर्वदा चिदचिद्वस्तुतया तत्प्रकारं ब्रह्म तत्कदाचित्स्वस्माद्विभक्तव्यपदेशानहातिसूक्ष्मदशापनचिदचिद्वस्तुशरीरं तिष्ठति ; तत्कारणावस्थं ब्रह्म । कदाचिच्च विभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरम् । तच्च कार्यावस्थम् । तत्र कारणावस्थस्य कार्यावस्थापत्तावचिदंशस्य कारणावस्थायां शब्दादिविहीनस्य भोग्यत्वाय शब्दादिमत्तया स्वरूपान्यथाभावरूपविकारो भवति । चिदंशस्य च कर्मफलविशेषभोक्तृत्वाय तदनुरूपज्ञानविकासरूपविकारो भवति । उभयप्रकारविशिष्टे नियन्त्रंशे तदवस्थतदुभयविशिष्टतारूपविकारो भवति; कारणावस्थाया अवस्थान्तरापत्तिरूपो विकारः प्रकारद्वये प्रकारिणि च समानः। अत एवैकस्यावस्थान्तरापत्तिरूपविकारापेक्षया १“येनाश्रुतं श्रुतम्" इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृदादिदृष्टान्तो २" यथा
१, २. छा. ६-१-३, ४॥
*18
For Private And Personal Use Only