________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६ श्रीशारीरकमीमांसाभाष्ये
[म. २. स्वं गवादिशब्देषु सिद्धम् ॥१७॥
इति वेदान्तदीपे तेजोधिकरणम् ॥ २ ॥ -...( श्रीशारीरकमीमांसाभाष्ये आत्माधिकरणम् ॥३॥) --- नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः। २।३। १८॥
वियदादेः कृत्स्नस्य परस्माद्ब्रह्मण उत्पत्तिरुक्ता।इदानीं जीवस्याप्युत्पत्तिरस्ति नेति संशय्यते; किं युक्तम् ? अस्तीति, कुतः, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तेः, प्राक्सष्टेरेकत्वावधारणाच । वियदादेरिव जीवस्याप्युत्पत्तिवादिन्यः श्रुतयश्च सन्ति-१“यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्"२ "प्रजापतिःप्रजा असृजत"३"सन्मूलास्सोम्येमास्साः प्रजास्सदायतनास्सत्सतिष्ठाः" ४“यतो वा इमानि भूतानि जायन्ते"इति |एवं सचेतनस्य जगत उत्पत्तिवचनात् जीवस्याप्युत्पत्तिः प्रतीयते। नच वाच्यं ब्रह्मणो नित्यत्वात् तत्त्वमस्यादिभिश्च जीवस्य ब्रह्मत्वावगमाजीवस्य नित्यत्वम्-इति ५“ऐतदात्म्यमिदं सर्वम्" ६"सर्वखल्विदं ब्रह्म"इत्येवमादिभिर्वियदादेरपि ब्रह्मत्वावगमात्तस्यापि नित्यत्वप्रसक्तेः। अतो जीवोपि वियदादिवदुत्पद्यत इति ॥
--सिद्धान्तः)एवं प्राप्तेऽभिधीयते-नात्मा श्रुतेः-इति।नात्मोत्पद्यते कुतः श्रुतेः "नजायते म्रियते वा विपश्चित्" "ज्ञाज्ञौ द्वावजी"इत्यादिमिर्जीवस्योत्पत्तिप्रतिषेधो हि श्रूयते।आत्मनो नित्यत्वं च ताभ्यः-श्रुतिभ्य एवागम्यते "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" "अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे" इत्यादिभ्यः।अतश्च
१, ते. भम्भ. १-१ ॥२. यजु, २-अष्ट ॥---३, छा, ६-८.४॥-४. ते. आन. ॥ -५.छा, ६-८-७॥-६.छा. ३-१४-१॥-७. कर.२-१८॥-८. श्वे. १.९॥
For Private And Personal Use Only