________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.) तेजोधिकरणम्.
१३५ तदभिध्यानादेवतु तल्लिङ्गात्सः॥ तुशब्दः पक्षव्यावृत्त्यर्थः । न तेजःप्रभृतयः केवलाः स्वानन्तराणां कारणानि; अपि तु तत्तच्छरीरः सः परमास्मैव तेषां कारणम् ; कुतः१ परमात्मसृष्टिलिङ्गात् तथाविधाभिध्यानात् । यथैवहिर "तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत" इति तथैव? "तत्तेज ऐक्षत बहुस्यां प्रजायेय" इति बहुभवनसङ्कल्परूपामिध्यानं दृश्यते। ईदृशमभिध्यानं परमात्मन एव हि सम्भवति ॥१४॥
विपर्ययेण तु क्रमोऽत उपपद्यते च।।" आकाशाद्वायुः वायोरग्निः" इति पारम्पर्यक्रमात् विपर्ययेण३"एतस्माजायते प्राणो मनस्सर्वेन्द्रियाणिचाखं पायुयोतिरापः पृथिवी"इति सर्वेषां ब्रह्मानन्तर्यरूपो यः क्रमः, सचातएव ततच्छरीराब्रह्मणस्सृष्टेः उपपद्यते ॥ १५॥
अन्तरा विज्ञानमनसी क्रमेणतल्लिङ्गादितिचेन्नाविशेषात् ॥ विज्ञानसाधनत्वादिन्द्रियाणि प्राणश्च विज्ञानमित्युच्यन्ते। ३"एतस्माजायते प्राणः"इ. स्येतद्वाक्यम् आकाशतन्मात्रपञ्चकयोरन्तरले विज्ञानमनसी क्रमेण उत्पद्यते इत्येतत्परम्।विज्ञानमनसी इति प्राणस्यापि प्रदर्शनार्थम्, ४"पृथिव्यप्सु प्रलीयते"इत्यारभ्य ४"वायुराकाशे लीयते आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु त. न्मात्राणि भूतादौ लीयन्ते"इति प्रलयक्रमप्रत्यभिज्ञानात् तल्लिङ्गात्।अतो न श्रुत्यन्तरविरुद्धत्वात्साक्षाब्रह्मणस्सर्वेषां सृष्टिपरमिदं वाक्यम्।अपि तु श्रुत्यन्तरसिद्धपारम्पर्यक्रमपरमिति चेत्-परिहरति-नाविशेषात् - भूततन्मात्रान्तराले विज्ञानमनसोरुत्पत्तावपि तमच्छरीरकब्रह्माभिधायित्वाद्भतेन्द्रियमनः प्राणशब्दानां सर्वेषां साक्षादुत्पत्त्यविशेषात् तत्परमेवेदं वाक्यम् ॥ १६॥
लोके तत्तवस्तुवाचितया शब्दजातस्य ब्रह्मणि वृत्तिरमुख्येत्याशङ्कयाह
चराचरव्यपाश्रयस्तु स्यात्तद्यपदेशोऽभाक्तस्तद्भावमावित्वात्॥तु. शब्दश्शङ्कानिवृत्त्यर्थः स्थावरजङ्गमवस्तुव्यपाश्रयः तद्यपदेशः तद्वाचिशब्दो ब्र. पणि अभातः मुख्यएव,कुतः तद्भावभावित्वात्-तेजः प्रभृतिषु आत्मतयानप्रभावभावित्वेन सर्वस्य वस्तुनस्तच्छरीरतया तत्प्रकारत्वात् तत्तद्वाचिनां श. दानां तत्रैव पर्यवसानात्।प्रकारवाचिनां शब्दानां प्रकारिपर्यवसायित्वेनाभाक्त
.
१, छा. ६.२.३ ॥-२. ते, आन, १-२-॥ ३, मु.१-१-३॥-४, शुगा२-ख ।।
For Private And Personal Use Only