SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३. ] तेजोधिकरणम् १३३ दो ब्रह्मण्यभाक्तः मुख्य एव कुतः ?, ब्रह्मभावभावित्वात्सर्वशब्दानां वाचकभावस्य; नामरूपव्याकरणश्रुत्या हि तथाऽवगतम् ॥ १७ ॥ इति श्रीशारीरकमीमांसाभाष्ये तेजोधिकरणम् ॥ २ ॥ वेदान्तसारे - तेजोऽतस्तथाह्याह ॥ तेजः वायोरेवोत्पद्यते; न सा क्षाह्मणः १" वायोरग्निः" इति आह ॥ १० ॥ आपः || १'' अग्नेरापः" इति श्रुतेः आपः अग्नेः ॥ ११ ॥ पृथिवी ॥ पृथिवी अय:, १" अद्भयः पृथिवी” इति श्रुतेः ॥ १२ ॥ अधिकाररूपशब्दान्तरेभ्यः ॥ २"ता अन्नमसृजन्त" इत्यन्नशब्देन पृधिव्येवाभिधीयते, महाभूतसृष्ट्यधिकारात् । ३" यत्कृष्णं तदन्नस्य " इति पृथि वीरूपविधानात् १ अद्भ्यः पृथिवी" इति पृथिवीशब्दाभिधानाच्च ॥ १३ ॥ राद्धान्तमाह " " तदभिध्यानादेव तु तल्लिङ्गात्सः ४' तत्तेज ऐक्षत '४' 'ता आप ऐक्षन्त" इति तदभिध्यानरूपात् ४" तदैक्षत बहु स्याम्" इत्येतत्स्वरूपात् परमात्मकारणत्व लिङ्गात् स एव परमात्मा तेजःप्रभृतिशरीरकस्तत्तच्छब्देस्साक्षात्कारणत्वेनाभिधीयते ॥ १४ ॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ।। पारम्पर्यक्रमात् विपर्ययेण५ "पतस्माज्जायते प्राणः खं वायुर्ज्योतिरापः" इत्यादिवाक्यात् यस्साक्षाद्ब्रह्मणस्सृष्टिरुपक्रमः, सोऽपि अतः तेजःप्रभृतिशरीर कब्रह्मण एव सृष्टेः उपपद्यते ॥ १५ ॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ भूतप्राणयोरन्तराले इन्द्रियग्राममनसी क्रमेण उत्पद्येते इत्येतत्परमिदं वाक्यं ५ ख वायुर्ज्योतिरापः" इत्यादिश्रुतिप्रत्यभिज्ञानरूपात् लिङ्गात्; अत इदमपि पारंपर्यक्रम परमितिचेन्न, ५ " एतस्माज्जायते" इत्यस्य प्राणादिपृथिव्यन्तेषु सर्वेषु प्रत्येकमन्वयाविशेषात् । अतस्तेजः प्रभृतीनामपि साक्षात्परमात्मैव कारणम् ॥ ४ " तसेज ऐक्षत" इति तेजःप्रभृतिशब्दाः लोके तत्तद्वस्तुवाचिनः ब्रह्मणि भाक्ता इत्यत्राह - १. ते. आन. १-२ ॥ —–२, छा. ६-२-४॥–३, छा, ६-४-१॥–४, छा.६-२-३॥ -५, मु. २-१-३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy