________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२ श्रीशारीरकमीमांसाभाष्ये
[म.२. तीतेः। खादिषुतावत् श्रुत्यन्तरसिद्धः क्रमोऽत्रापि प्रतीयते-तैस्सहपाठलिगाद्भतप्राणयोरन्तराले विज्ञानमनसी अपि क्रमेणोत्पद्यते इति प्रतीयते । अतस्सर्वस्य साक्षाह्मण एव सम्भवस्योत्तम्भनमिदं वाक्यं न भवतीति चेत्-तम, अविशेषात् १ "एतस्माज्जायते प्राणः"इत्यनेनाविशेषात्। विज्ञानमनसोः खादीनांच "एतस्माज्जायते"इत्यनेन साक्षात्सम्भवरूपसम्बन्धस्याभिधेयस्य सर्वेषां प्राणादिपृथिव्यन्तानामविशिष्टत्वात्स एव विधेयः, न क्रमः। श्रुत्यन्तरसिद्धक्रमविरोधाच नेदं क्रमपरम् , २"पृथिव्यप्सु प्रलीयते"इत्यारभ्य "तमः....एकीभवति" इत्यन्तेन क्रमान्तरप्रतीतेः।अतोऽन्यक्तादिशरीरकात्परस्माद्ब्रह्मण एव सर्वकार्याणामुत्पत्तिातेजन्मभृतयश्च शब्दास्तदात्मभूतं ब्रह्मैवाभिदधति ॥१६॥
नन्वेवं सर्वशब्दानां ब्रह्मवाचित्वे सति तैस्तैश्शन्दैः तत्तद्वस्तुन्यपदेशो व्युत्पत्तिसिद्ध्य उपरुद्ध्येत ; तत्राहचराचरव्यपाश्रयस्तु स्यात्तद्वयपदेशोभाक्तस्तद्भाव
भावित्वात् । २।३ । १७॥ तुशब्दश्वोदिताशङ्कानिवृत्त्यर्थः, निखिलजङ्गमस्थावरव्यपाश्रयस्तसच्छन्दव्यपदेशः भाक्तः-वाच्यैकदेशे भज्यत इत्यर्थः; समस्तवस्तुप्रकारिणो ब्रह्मणः प्रकारभूतवस्तुग्राहिप्रत्यक्षादिप्रमाणाविषयत्वाद्वेदान्तश्रवणात्माक्प्रकार्यप्रतीतेः,प्रकारिप्रतीतिभावभावित्वाच्च तत्पर्यवसानस्य, लोके तत्तद्वस्तुमात्रे वाच्यैकदेशे तेते शब्दाः भङ्क्त्वाभङ्क्त्वा न्यपदिश्यन्ते । अथवा तेजःप्रभृतिभिश्शब्दैस्तत्तद्वस्तुमात्रवाचितया व्युत्पनैब्रह्मणो व्यपदेशो भाक्तस्स्यात्-अमुख्यस्स्यादित्याशङ्कय-चराचरव्यपाश्रयस्तु-इत्युच्यते । चराचरव्यपाश्रयः तद्वयपदेशः-तद्वाचिशन्दः,चराचरवाचिश
१. सु. २-१-३ ॥-२. सुना, २-ख ॥
For Private And Personal Use Only