________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३. ]
१३१
तेजोधिकरणम्. श्रवणान्महदहङ्काराकाशादीनामपि कारणानां तथाविधेक्षापूर्विकैव स्वकार्यसृष्टिरिति गम्यते, तथाविधंचेक्षणं तत्तच्छरीरकस्य परस्यैव ब्रह्मण उपपद्यते । श्रूयतेच सर्वशरीरकत्वेन सर्वात्मकत्वं परस्य ब्रह्मणोऽन्तर्यामिब्राह्मणे १" यः पृथिव्यां तिष्ठन् " १" योऽप्सु तिष्ठन् "१" यस्तेजसि तिष्ठन् "१"यो वायौ तिष्ठन् "१" य आकाशे तिष्ठन् " इत्यादि । सुबालोपनिषदिच २" यस्य पृथिवी शरीरम् " इत्यारभ्य २ " यस्याहङ्कारश्शरीरं " २" यस्य बुद्धिश्शरीरं " २" यस्याव्यक्तं शरीरम् " इत्यादि ।
Acharya Shri Kailassagarsuri Gyanmandir
यच्चोक्तम् ३ " एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च" इत्यादिषु भूयमाणा ब्रह्मणः प्राणादिसृष्टिः परम्परयाऽप्युपपद्यत इति; अनोच्यतेविपर्ययेण तु क्रमोऽत उपपद्यते |२| ३ | १५ ॥
तुशब्दोऽवधारणार्थः । अव्यक्तमहदहङ्काराकाशादिक्रमाद्विपर्ययेण यस्सर्वेषां कार्याणां ब्रह्मानन्तर्यरूपः क्रमः ३" एतस्माज्जायते प्राणः" इत्यादिषु प्रतीयते, सच क्रमस्तत्तद्रपाद्ब्रह्मणस्त तत्कार्योत्पत्तेरेवोपपद्यते । परम्परया कारणत्वे ह्यानन्तर्यश्रवणमुपरुध्येत । अतः ३ “एतस्माज्जायते" इत्यादिकमपि सर्वस्य ब्रह्मणः साक्षात्सम्भवस्योत्तम्भनम् ॥ १५ ॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्ना -
विशेषात् । २ । ३ । १६ ॥
1
विज्ञानसाधनत्वादिन्द्रियाणि विज्ञानमित्युच्यन्ते, यदुक्तम् ३" एतस्माज्जायते " इत्यादिना सर्वस्य ब्रह्मणोऽनन्तरकार्यत्वं श्राव्यते; अतश्चानेन वाक्येन सर्वस्य साक्षाद्ब्रह्मण उत्पत्तिरभिध्यानलिङ्गावगतोत्तभ्यत इति; तनोपपद्यते - क्रमविशेषपरत्वादस्य वाक्यस्य; अत्रापि सर्वेषां क्रमप्र
१. बु. ५-७ ॥ २. सुबा, ७ ॥ ३. मु. २-१-३ ॥
For Private And Personal Use Only