________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३० श्रीशारीरकमीमांसाभाष्ये
[म. २. पृथिवी अद्भय उत्पद्यते-१ अद्भयः पृथिवी" २ "ता अनमसनन्त" इति शाह ॥ १२ ॥
नन्वनशब्देन कथं पृथिव्यभिधीयते ?, अत आहअधिकाररूपशब्दान्तरेभ्यः । २।३।१३॥
महाभूतसृष्टयधिकारात्पृथिव्येवानशब्देनोक्तेति प्रतीयते । अदनीयस्य सर्वस्य पृथिवीविकारत्वात् कारणे कार्यशब्दातया वाक्यशेषे भूतानां रूपसंशब्दने,३"यदग्नेरोहितं रूपं तेजसस्तद्रपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य" इत्यतेजसोस्सजातीयमेवानशब्दवाच्यं प्रतीयते। शब्दान्तरं च समानप्रकरणे "अग्नेरापः अद्भयः पृथिवी"इति श्रूयते।अतः पृथिव्येवामशब्देनोच्यत इत्यद्भय एव पृथिवी जायते।उदाहृतास्तेजःप्रभृतयः प्रदर्शनार्थाः। महदादयोऽपि स्वानन्तरवस्तुन एवोत्पद्यन्ते, यथाश्रुत्यभ्युपगमाविरोधात् । ४"एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च। खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी" ५"तस्मादेतद्ब्रह्मनामरूपमन्नं च जायते"१"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः ६"तत्तेजोऽसृजत" इत्यादयो ब्रह्मणः परम्परया कारणत्वेऽप्युपपद्यन्त इति ॥१३॥
-(सिद्धान्तः)--- एवं प्राप्ते प्रचक्ष्महेतदभिध्यानादेव तु तल्लिङ्गात्सः । २।३।१४॥
तुशब्दात्पक्षो व्यावृत्तः,महदादिकार्याणामपि तत्तदनन्तरवस्तुशरीरकस्स एव पुरुषोत्तमः कारणम्,कुतः तदभिध्यानरूपातल्लिङ्गावःअभिध्यानम्-बहु स्यामिति सङ्कल्पः, ६"तत्तेज ऐक्षत बहु स्यां प्रजायेयेति" २"ता आप ऐक्षन्त बयस्स्यामःमजायेमहि"इत्यात्मनो बहुभवनसङ्कल्परूपेक्षण
१. ते, आन, १-अनु. २ ॥-२. छा. ६.२-४॥-३. छा, ३-४-१ -४. मु. २-१-३॥-५. मु, १-१.९॥-६. डा. ६.२-३ ॥
-
-
-
For Private And Personal Use Only