________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
पा. ३.]
समुदायाधिकरणम् . स्थाच्चैकस्य ब्रह्मशब्दवत् ॥ एकस्य सम्भूतशब्दस्याऽकाशे गौणत्वमन्यत्र मुख्यत्वम् अनुषड्ने सम्भवत्येव, श्रवणावृत्तिवत् । यथैकस्य ब्रह्मशब्दस्य १"तस्मादेतत् ब्रह्म नाम रूपमन्नञ्च जायते' इति प्रकृती गौणत्वम् , २ “तपसा चीयते ब्रह्म" इति मुख्यत्वमावृत्तौ ॥४॥
परिहरति
प्रतिज्ञाहानिरव्यतिरेकात् ॥ ३"येनाश्रुतम्" इत्यादिना एकविज्ञानेन सर्वविज्ञानप्रतिनायाः अहानिः वियदादेः ब्रह्मकार्यत्वेन तव्यतिरेकादेव ॥५॥
शब्दभ्यः॥ ४"आकाशस्संभूतः" इत्यादिशब्दभ्यः अवगतां वियदुत्पत्तिं ५" तत्तेजोऽसृजत"इत्यत्राकाशशब्दावचनावगतं तेजःप्राथम्यं न निवारयितुं क्षमम् ॥६॥
यावद्विकारं तु विभागोलोकवत् ॥ ६“ऐतदात्म्यमिदं सर्वम्" इस्यादिना आकाशादेरपि विकारत्वावगमात् , तेजःप्रभृतिविभागवचनं सर्वस्य प्र. दर्शनार्थमिति निश्चीयते । यथा च लोके 'दशेमे देवदत्तपुत्राः' इत्युक्त्वा तेषु केषाश्चिदुत्पत्तिवचनम् ॥ ७॥
एतेन मातरिश्वा व्याख्यातः ॥ ७'तेजोऽतः” इत्यादि वक्तुं वायोः पृथगुपादानम् ॥ ८॥
असम्भवस्तु सतोऽनुपपत्तेः॥ असम्भवस्तु परस्य ब्रह्मण एव, इतरस्य ८ "सदेव' इत्यवधारणाद्यनुपपत्तेरुत्पवित्तरे ॥९॥
इति वेदान्तसारे वियदधिकरणम् ॥ १॥
वेदान्तदीपे-न वियदश्रुतेः ॥ वियत् उत्पद्यते नेतिसंशयः । नोत्पद्यते इति पूर्वः पक्षः, निरवयवस्य सर्वगतस्यात्मन इवोत्पत्त्यसम्भवात् । असम्भावनीयस्य श्रवणं च न सम्भवति । अत उत्पत्तिश्रुतिौणीति ।राद्धान्तस्तु -वियत् उत्पद्यत एव,उत्पत्तिश्रुतेः । अतीन्द्रियार्थविषयया श्रुत्याऽभिहितेऽर्थे निरवयवत्वादिहतुकं नानुत्पत्त्यनुमानमुदतुमलम्। आत्मनोऽप्यनुत्पत्तिश्रुतेरेव
१. मु. १.१.९॥२. मु. १-१-८॥-३. छा, ६-१-३॥-४. ते. आन. १॥ ५. डा, ६-२-३॥-६. छा. ६-८-७॥-७. शारी. २-३-१०॥-८. छा. ६.२.१॥
For Private And Personal Use Only