SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ भ. २. श्रीशारीरकमीमांसाभाष्ये त्तिवचनेन सर्वेषामुत्पत्तिरुक्ता स्यात् तद्वत् । एवंच सति " वायुश्चान्तरिक्षञ्चैतदमृतम्" इति मुराणामिव चिरकालस्थायित्वाभिप्रायम् ॥७॥ एतेन मातरिश्वा व्याख्यातः। २।३।८॥ अनेनैव हेतुना मातरिश्वनो वायोरप्युत्पत्तिाख्याता । वियन्मातरिश्वनोः पृथग्योगकरणं २ "तेजोऽतस्तथाह्याह " इति मातरिश्वपरामार्थम् ॥ ८॥ असम्भवस्तु सतोऽनुपपत्तेः । २।३।९॥ __तुशब्दोऽवधारणार्थः; असम्भवः-अनुत्पत्तिः । सतः-ब्रह्मण एवः तद्व्यतिरिक्तस्य कस्यचिदप्यनुत्पत्तिर्न सम्भवति, अनुपपत्तेः। एतदुक्तं भवति-वियन्मातरिश्वनोरुत्पत्तिप्रतिपादनमुदाहरणार्थम् ; उत्पत्त्यसम्भवस्तु सतः परमकारणस्य परस्यैव ब्रह्मणः । तद्व्यतिरिक्तस्य कनस्याव्यक्तमहदहङ्कारतन्मात्रेन्द्रियवियत्पवनादिकस्य प्रपञ्चस्यैकविज्ञाने न सर्वविज्ञानप्रतिज्ञादिभिरवगतकार्यभावस्यानुत्पत्तिोंपपद्यत इति ॥९॥ इति श्रीशारीरकमीमांसाभाष्ये वियदधिकरणम् १ ॥ वेदान्तसारे-न वियदश्रुतेः।। वियन्नोत्पद्यते, अश्रुतेः-श्रुतिः श्रव. णम् । निरवयवस्य, आत्मन इवोत्पत्तिश्रवणासम्भवात् ॥१॥ अस्ति तु॥ श्रवणं सम्भवत्येव-३"आकाशस्सम्भूतः" इत्येव हि श्रुतिः अतीन्द्रियार्थविषया वियदुत्पत्ति प्रतिपादयति । आत्मनोऽपि ४"न जायते" इ ति प्रतिषेधादनुत्पत्तिः ॥२॥ गौण्यसम्भवाच्छब्दाच्च ॥ ५“तत्तेजोऽसृजत" इति तेजःप्राथम्यवचनात्, ३ 'आकाशस्सम्भूतः" इति श्रुतिः गौणी १“वायुश्चान्तरिक्षश्चैतदमृतम्' इति शब्दाच ॥३॥ १. बृ. ४.३.३ ।।-२. शारी. २-३-१०॥-३. ते. आन. १ ।।-४. कर. १-२ १८॥-५. ना. ६-२-३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy