________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
वेदान्तदीपे
अ. २.
नित्यत्वम् ; न निरवयवत्वादिना। सूत्रार्थस्तु-नवियदश्रुतेः-वियत् नोत्पद्यते। कुतः? अश्रुतेः- अश्रवणात् ; असम्भावनीयस्य श्रवणासम्भवात् ॥ १॥
अस्ति तु ॥ अस्ति तु वियत उत्पत्तिः, १ "आत्मन अकाशस्सम्भूतः" इति श्रुतेः; अतीन्द्रियार्थविषयया श्रुत्या प्रमाणान्तराप्रतिपन्नवियदुत्पत्तिप्रति. पादनं सम्भवत्येव । “न अग्निना सिश्चेत्" इतिवदयोग्यमित्यर्थः ॥२॥
गौण्यसम्भवाच्छब्दाच ॥ २''तत्तेजोऽसृजत" इति प्रतिपन्नतेजःप्रा. थम्यविरोधात् मध्ये वियदुत्पत्तिर्नसम्भवतीत्युत्पत्तिश्रुतिौणी,३ 'वायुश्चान्त, रिक्षं चैतदमृतम्" इत्यमृतत्वश्रवणाञ्च ॥ ३ ॥
स्याच्चैकस्य ब्रह्मशब्दवत्॥ १"आकाशस्सम्भूतः आकाशाद्वायुः। वायोरग्निः" इत्यादिषु सर्वत्रानुषक्तस्यैकस्य सम्भूतशब्दस्य आकाशे गौणत्वम्, वाय्वादिषु मुख्यत्वं च सम्भवति च ब्रह्मशब्दवत् यथैकस्य ब्रह्मशब्दस्यैकप्रकरणे श्रूयमाणस्य ४"तस्मादेतद्ब्रह्म नामरूपमनश्च जायते'' इति प्रधानेगौणत्वम्, ५"तपसा चीयते ब्रह्म''इति ब्रह्मणिमुख्यत्वंचाश्रवणावृत्ताविवानुषऽङ्गेयभिधानावृत्तेरनुषङ्गोऽपि तत्तुल्य इत्यभिप्रायः॥४॥
परिहरति
प्रतिज्ञाऽहानिरव्यतिरेकात् ॥ ६'येनाश्रुतं श्रुतम्" इति ब्रह्मविज्ञानेनाकाशादिसर्वविज्ञानप्रतिक्षाया अहानिः आकाशस्यापि ब्रह्मण उत्पत्त्या तदव्य. तिरकादेव भवति ॥५॥
शब्देभ्यः ॥ इतश्च ७"सदेव सोम्येदमग्र आसीत्" "ऐतदात्म्यमिदं सर्वम्" इत्यादिभ्यो ब्रह्मणः प्राक्सृष्टेरेकत्वावधारणसर्वात्मकत्वादिवादिभ्यशब्दभ्यश्च वियदुत्पत्तिः प्रतीयते। ९ 'तत्तेजोऽसृजत" इत्येतस्मिन्वाक्ये आकाशोत्पत्त्यवचनात्प्रतीयमानं तेजःप्राथम्यं समानप्रकरणस्थैः प्रकरणान्तरस्थैश्च शब्दैः प्रतीयमानां वियदुत्पत्तिं न निवारयतीत्यभिप्रायः ॥ ६॥ ... यावद्विकारं तु विभागो लोकवत्।।यद्यपि छान्दोग्ये १० तत्तेजोऽस्जत" इतिवदाकाशोत्पत्तिः स्वरूपेण नाभिधीयते; तथापि तस्मिन्नेव 'ऐत
१. ते. आन. १॥-२. छा. ६-२-३॥ ३. वृ. ४-३-३ ॥–४. मु. १-१-९॥ -५. मु. १-१.८॥-६. छा, ६-१-३॥-७. छा. ६.२.२॥-८, छा. ६-८-७॥९. छा, ६-२-३॥
For Private And Personal Use Only