SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा २. उत्पत्त्यसम्भवाधिकरणम्. स्वयमेवपञ्चरात्रतन्ले विशदीकृतम्-इति।शारीरके च साङ्खयोक्ततत्त्वाना मब्रह्मात्मकतामात्र निराकृतम् । न स्वरूपम् । योगपाशुपतयोश्चेश्वरस्य के वलनिमित्तकारणता, परावरतत्त्वविपरीतकल्पना,वेदबहिष्कृताचारो नि राकृतः, न योगस्वरूपम् , पशुपतिस्वरूपं च। अतः १“साङ्ख्यं योगः प. श्वरानं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतु. भिः" इत्यपि तत्तदभिहिततत्तत्स्वरूपमात्रमङ्गीकार्यम् जिनसुगताभिहिततत्त्ववत्सर्व न बहिष्कार्यमित्युच्यते । २यथागमं “यथान्यायं निष्ठा नारा. यणः प्रभुः" इत्यनेनैकार्थ्यात् ॥ ४२ ॥ इति श्रीशारीरकमीमांसाभाष्ये उत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥ इतिश्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाग्ये द्वितीयस्याध्यायस्य द्वितीयः पादः॥२॥ वेदान्तसारे-उत्पत्त्यसम्भवात् ॥ साङ्खयादिवत्पञ्चरात्रमपि जीवो त्पत्त्यभिधानात् , श्रुतिविरुद्धत्वेन तदसम्भवादप्रमाणम् ॥ ३९ ॥ न च कर्तुः करणम् ॥ कर्तुः जीवात् , करणम् मनश्च, श्रुतावुत्पद्यते इति नोच्यते,३"एतस्माजायते प्राणो मनस्सर्वेन्द्रियाणिच" इत्यादिश्रुतेः॥४०॥ विज्ञानादिभावे वा तदप्रतिषेधः॥ ४"वासुदेवात्सङ्कर्षणो नाम जीव" इत्यादौ सङ्कर्षणादीनां विज्ञानादिरूपवासुदेवत्वे सति तदभिधायिनः प्रा. माण्यानिषेधः । परब्रह्मवासुदेवस्य श्रुतावपि ५ 'अजायमानो बहुधा विजायते" इतिचावतारश्श्रूयते । जीधादिशब्दाः तच्छरीरकसङ्कर्षणादीनां वाचकाः॥ ४१॥ विप्रतिषेधाच ॥ तस्मिन्नपि तन्त्रे 'व्याप्तिरूपेण सम्बन्धः तस्याश्च पु. रुषस्य च । सानादिरनन्तश्च परमार्थेन निश्चितः" इति जीवोत्पत्तिप्रतिषेधाबाविरोधश्श्रुतः॥४२॥ इति वेदान्तसारे उत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे द्वितीयस्याध्यायस्य द्वितीयः पादः ॥२॥ १. भारते, शान्ति. मोक्ष. ३५०-६३ ॥ -२. भारते. शान्ति. मोक्ष. ३५०-६८॥ -३. मु. २-१-३ ॥-४. पञ्चरात्रे.-५. पुरुषस्. *16 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy