________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२ वेदान्तदीपे
[अ. २. वेदान्तदीपे-उत्पत्त्यसम्भवात् ॥ साङ्ख्यादितन्त्रवत् पाश्चरात्रतन्त्रमप्यप्रमाणम्, उत नेति संशयः ; अप्रमाणमिति पूर्वः पक्षः-वासुदेवात्सङ्कर्षणेनाम जीवो जायते 'इति श्रुतिविरुद्धजीवोत्पत्त्यादिप्रतिपादनात्, १"चतुषु वेदेषु पुरुषार्थमलभमानः" इति वेदगणानादरवचनाच । राद्धान्तस्तु-सङ्कर्षणप्रधुम्नानिरुद्धानां परब्रह्मभावानाम् "अजायमानो बहुधा विजायते" इतिश्रुतिप्रसिद्धखेच्छावतारप्रतिपादनान कचिच्छृतिविरोधः । जीवाहङ्कारमनश्शब्दाश्च तत्तच्छरीरकाणां सङ्कर्षणादीनामेवाभिधायकाः,३'तक्षेज ऐक्षत" इति तेजः प्रभृतिशब्दवत्। १ "चतुर्पु वेदेषु पुरुषार्थमलभमानः' इति च अनुदितहोमनिन्दावत् यथा ४'ऋग्वेदं भगवोऽध्येमि” इत्यारभ्य 'इतिहासपुराणं पञ्चमम्"इत्यादिना सर्वेषु विद्यास्थानेषु चात्मनो वेदनाभाववचनं वक्ष्यमाणप्रशंसार्थम् । तन्त्रेऽस्मिन्वेदान्तोदितब्रह्मोपासनविधानावेदाविरुद्धतदर्चनादि विधानाचावगम्यते इति प्रमाणमेवासूत्रार्थस्तु-उत्पत्त्यसम्भवात्-५"न जायते म्रियते वा" इत्यादिश्रुतेः जीवस्योत्पत्त्यसम्भवाजीवोत्पत्तिवचनाश्च न प्रमाणम् ॥ ३९ ॥
न च कर्तुः करणम् ॥ १“सङ्कर्षणात्प्रद्युम्नसंझं मन उत्पद्यते" इति मनसः करणस्य कर्तुर्जीवादुत्पत्तिश्च श्रुतिविरुद्धत्वान्न सम्भवति;६"एतस्माजायते प्राणो मनस्सर्वेन्द्रियाणिच" इति मनसो ब्रह्मण उत्पत्तिश्श्रूयते ॥ ४० ॥
विज्ञानादिभावे वा तदप्रतिषेधः ॥ वाशब्दात्पक्षो विपरिवर्तते ; विशानं चादि च विज्ञानादि ब्रह्म ; सङ्कर्षणादीनां ब्रह्मभावे सति २"अजायमानो बहुधा विजायते” इति श्रुतिप्रसिद्धस्वेच्छावतारस्यैवात्राभिधानात् , तदप्रतिषेधः, प्रामाण्याप्रतिषेधः, सङ्कर्षणादीनां जीवादिसमानाधिकरणतया निर्देशस्तेषामधिष्ठातृतयोपपद्यते ॥ ४१ ॥
विप्रतिषेधाच ॥ अस्मिन्नपि तन्त्रे जीवोत्पत्तिविप्रतिषेधाच अविरुदमिदं तन्त्रम्, १"व्याप्तिरूपेण सम्बन्धः तस्याश्च पुरुषस्यच । स ह्यनादिरनन्तश्च परमार्थेन निश्चितः" इति हि पुरुषस्योत्पत्तिः प्रतिषिध्यते ॥४२॥
इति वेदान्तदीपे उत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे
द्वितीयस्याध्यायस्य द्वितीयः पादः॥
१. पाश्चराने. २. पुरुषसू. ३. छा, ६.२-३ ॥~-४. छा, ७-१-२॥-५. कठ. १-२-१८॥-६. मु. २-२-३ ।।
For Private And Personal Use Only