________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२० श्रीशारीरकमीमांसाभाष्ये
[अ. २. भिधाय' "पश्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्वयम्"इति पञ्चरात्रतन्त्रस्य वक्ता नारायणः स्वयमेवेत्युक्तवान् । एवं वदतश्चायमाशयः-पौरुषेयाणां तन्त्राणां परस्परविरुद्धवस्तुवादितया अपौरुषेयत्वेन निरस्तप्रमादादिनिखिलदोषगन्धवेदवेद्यवस्तुविरुद्धाभिधायित्वाच्च यथावस्थितवस्तुनि प्रामाण्यं दुर्लभम् । वेदवेद्यश्च परब्रह्मभूतो नारायणः ; अतस्तत्तत्तन्त्राभिहितप्रधानपुरुषपशुपतिप्रभृतितत्वस्य वेदान्तवेद्यपरब्रह्मभूतनारायणात्मकतयैव वस्तुत्वमभ्युपगमनीयम्-इति । तदिदमाह च “सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते । यथागमं यथान्यायं निष्ठा नारायणः प्रभुः', इति । " यथागमं यथान्यायम्" इति न्यायानुगृहीततत्तदागमोक्तं वस्तु परामृशतो नारायण एव सवस्य वस्तुनो निष्ठेति दृश्यते, अब्रह्मात्मकतया तत्तत्तन्त्राभिहितानां तत्त्वानां ३" सर्व खल्विदं ब्रह्म" ४"विश्वं नारायणः” इत्यादिना सर्वस्य ब्रह्मात्मकतामनुसन्दधानस्य ना. रायण एव निष्ठेति प्रतीयत इत्यर्थः । अतो वेदान्तवेद्यः परब्रह्म भूतो नारायणः खयमेव पञ्चरात्रस्य कृत्स्नस्य वक्तेति, तत्स्वरूपतदुपासनाभिधायि तत्तन्त्रमिति च तस्मिन्नितरतन्त्रसामान्यं न केनचिदुद्भावयितुं शक्यम् । अतस्तत्रैवेदमुच्यते ५" एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च। परस्पराङ्गान्येतानि पश्चरात्रं तु कथ्यते " इति। साङ्क्षयं च योगश्च साङ्ख्ययोगम् , वेदाश्चारण्यकानि च वेदारण्यकम् , परस्पराङ्गान्येतानि एकतत्त्वप्रतिपादनपरतयैकीभूतानि एकं पञ्चरात्रमिति कथ्यते । एतदुक्तं भवति-साङ्खयोक्तानि पञ्चविंशतितत्त्वानि, योगोक्तं च यमनियमाद्यात्मकं योगम् , वेदोदितकर्मस्वरूपाण्यङ्गीकृत्य तत्त्वानां ब्रह्मात्मकत्वं। योगस्य च ब्रह्मोपासनप्रकारत्वं कर्मणां च तदाराधनरूपतामभिदधतिब्रह्मखरूपं प्रतिपादयन्त्यारण्यकानि । एतदेव परेण ब्रह्मणा नारायणेन
१. भार. शा. मो. ३५०-६७ ॥ २. भार. शा. मो. ३५०-६७-६८ ॥ ३. छा. ३-१४१॥ ४. ते, नारा. १३॥ ५. भार. शा. मो. ३४९-८१ ॥
For Private And Personal Use Only