________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] उत्पत्त्यसम्भवाधिकरणम्. णो यथा।आरण्यकं च वेदेभ्यः ओषधीभ्यो यथाऽमृतम्" १ "इदं महोपनिषदं चतुर्वेदसमन्वितम्।साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम्"२ "इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा। भविष्यति प्रमाणं वा एतदेवानुशासनम्" इति । साङ्ख्ययोगशब्दाभ्यां ज्ञानयोगकर्मयोगावभिहितौ ; यथोक्तं ३"ज्ञानयोगेन साङ्खयानां कर्मयोगेन योगिनाम्" इति । भीष्मपर्वण्यपि ४" ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणः। अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः । सात्वतं विधिमास्थाय गीतस्सङ्कर्षणेन यः" इति। कथमेवं ब्रुवाणो बादरायणो वेदविदग्रेसरो वेदान्तवेद्यपरब्रह्मभूतवासुदेवोपासनार्चनादिप्रतिपादनपरस्य सात्वतशास्त्रस्याप्रामाण्यं ब्रूयात्। ननुच ५“साङ्ख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा।....किमेतान्येकनिष्ठानि पृथनिष्ठानि वा मुने" इत्यादिना साङ्ख्यादीनामप्यादरणीयतोच्यते ; शारीरके तु साङ्ख्यादीनि प्रतिषिध्यन्ते ; अत इदमपि तन्त्रं तत्तुल्यम् ; नेत्युच्यते, यतस्तत्रापीममेव शारीरकोक्तं न्यायमवतारयति ; “किमेतान्येकनिष्ठानि पृथङ्गिष्ठानिवा" इति प्रश्नस्यायमर्थः-किं साङ्ख्ययोगपाशुपतवेदपञ्चरात्राण्येकतत्त्वप्रतिपादनपराणि, पृथक्तत्त्वप्रतिपादनपराणि वा; यदैकतत्त्वप्रतिपादनपराणि, किं तदेकं तत्त्वम् ; यदा तु पृथक्तत्त्वप्रतिपादनपराणि, तदैषां परस्परं विरुद्धार्थप्रतिपादनपरत्वाद्वस्तुनि विकल्पासम्भवाच्चैकमेव प्रमाणम. ङ्गीकरणीयम् , किं तदेकम्-इति । अस्योत्तरं ब्रुवन् ६" ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै। साङ्क्षयस्य वक्ता कपिलः" इत्यारभ्य साङ्ख्ययोगपाशुपतानां कपिलहिरण्यगर्भपशुपतिकृतत्वेन पौरुषेयत्वं प्रतिपाद्य"अवान्तरतपा नाम वेदाचार्यस्स उच्यते" इति वेदानामपौरुषेयत्वम
१. भारते शान्ति-मोक्ष. ३४०-१११॥ २. भारते. शान्ति-मोक्ष. ३३६-३२ ॥ ३. गी. ३.३ ॥ ४. भारते. भीष्मपर्वणि. ६६-३९,४० ॥ ५. भारते. शान्ति-मोक्ष. ३५.-१,२॥६. भारते. शान्ति-मोक्ष. ३५०-६३,६४ ॥ ७. भारते. शा. मो. ३५०-६५ ॥
For Private And Personal Use Only