________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८ श्रीशारीरकमीमांसाभाग्ये
[म.२. वेद्यवासुदेवाख्यपरब्रह्मतत्त्वाभिधानादवगम्यते । तथा वेदार्थस्य दुर्शानतया सुखावबोधार्थशास्त्रारम्भः परमसंहितायामुच्यते १“अधीता भगवन् वेदास्साङ्गोपाङ्गास्सविस्तराः । श्रुतानि च मयाऽङ्गानि वाकोवाक्ययुतानि च । नचैतेषु समस्तेषु संशयेन विना कचित् । श्रेयोमार्ग प्रपश्यामि येन सिद्धिर्भविष्यति" इति, "वेदान्तेषु यथा सारं सङ्गय भगवान् हरिः । भक्तानुकम्पया विद्वान् सश्चिक्षेप यथासुखम्" इति च । अतस्स भगवान्वेदैकवेद्यः परब्रह्माभिधानो वासुदेवो निखिलहेयप्रत्यनीककल्यागैकतानानन्तज्ञानानन्दाद्यपरिमितोदारगुणसागरस्सत्यसङ्कल्पश्चातुवर्ण्यचातुराश्रम्यव्यवस्थयाऽवस्थितान् धर्मार्थकाममोक्षाख्यपुरुषार्थाभिमुखान् भक्तानवलोक्यापारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिः स्व. खरूपस्वविभूतिखाराधनतत्फलयाथात्म्यावबोधिनो वेदान् ऋग्यजुस्सामाथवभेदभिन्नानपरिमितशाखान् विध्यर्थवादमन्त्ररूपान् स्वेतरसकलसुरनरदुरवगाहांश्चावधार्य तदर्थयाथात्म्यावबोधि पञ्चरात्रशास्त्रं स्वयमे. व निरमिमीतेति निरवद्यम् ॥
यत्तु-परैस्मूत्रचतुष्टयं कस्यचिद्विरुद्धांशस्य प्रामाण्यनिषे - धपरं व्याख्यातम् । तत्सूत्राक्षराननुगुणम् , मूत्रकाराभिनायविरुद्धश्च । तथाहि-मूत्रकारेण वेदान्तन्यायाभिधायीनि सूत्राण्यभिधाय वेदोपबृंहणाय च भारतसंहितां शतसहस्रिकां कुर्वता मोक्षधर्मे ज्ञानकाण्डेऽभिहित २ "गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः। य इच्छेसिद्धिमास्थातुं देवतां कां यजेत सः" इत्यारभ्य महता प्रबन्धेन पञ्चरात्रशास्त्रप्रक्रियां प्रतिपाद्य३ "इदं शतसहस्राद्धि भारताख्यानविस्तरात्।आविध्य मतिमन्थानं दध्नो घृतमिवोद्धतम्।नवनीतं यथा दध्नो द्विपदां ब्राह्म
१. पञ्चरात्रे ॥ २. भारते. शान्ति-मोक्ष. ३३५-१ ॥३. भारते. शान्ति-मोक्ष. ३४४.११॥
For Private And Personal Use Only