________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २. ]
उत्पत्त्यसम्भवाधिकरणम्.
११७
सङ्कर्षणप्रद्युम्नानिरुद्धा इति तेषामेव जीवादिशब्दैरभिधानमविरुद्धम् ; यथा आकाशप्राणादिशब्दैः ब्रह्मणोऽभिधानम् ॥ ४१ ॥
विप्रतिषेधाच्च । २ । २ । ४२ ॥
विप्रतिषिद्धा हि जीवोत्पत्तिस्तस्मिन्नपि तन्त्रे ; यथोक्तं परमसहितायाम् ?" अचेतना परार्था च नित्या सततविक्रिया । त्रिगुणा कर्मिणां क्षेत्रं प्रकृतेरूपमुच्यते || व्याप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च । सानादिरनन्तश्च परमार्थेन निश्चितः " इति । एवं सर्वास्वपि संहितासु जीवस्य नित्यत्ववचनाज्जीवस्वरूपोत्पत्तिः पञ्चरात्रतन्त्रे प्रतिषिद्धैव । जन्ममरणादिव्यवहारस्तु लोकवेदयोर्जीवस्य यथोपपद्यते, तथा २" नात्मा श्रुतेः" इत्यत्र वक्ष्यते । अतो जीवस्योत्पत्तिस्तत्रापि प्रतिषिद्धैवेति जी - वोत्पत्तिवादनिमित्ताप्रामाण्यशङ्का दूरोत्सारिता । यश्चैष केषाञ्चिदुद्घोषः ३" साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रशास्त्रमधीतवान्" इति|साङ्गेषु वेदेषु पुरुषार्थनिष्ठा न लब्धेति वचनाद्वेदविरुद्धमेवेदं तन्त्रम्इति, सोऽप्यनाघ्रातवेदवचसामनाकलितत दुपबृंहणन्यायकलापानां श्रद्धामात्रविजृम्भितः ; यथा ४ " प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम्" इति अनुदितहोमनिन्दा उदित होमप्रशंसार्थेत्युक्तम् ; यथा च भूमविद्यामक्रमे नारदेन " ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमिमितिहासपुराणं पञ्चमम्" इत्यारभ्य सर्व विद्यास्थानमभिधाय ६ सोsहं भगवो मन्त्रविदेवास्मि नात्मवित्" इति भूमविद्याव्यतिरिक्तासु सर्वासु विद्यास्वात्मवेदनालाभवचनं वक्ष्यमाणभूमविद्यामर्शसार्थं कृतम् ; अथवा अस्य नारदस्य साङ्गेषु वेदेषु यत्परतस्वं प्रतिपाद्यते, तदलाभनिमित्तोऽयं वादः एवमेव शाण्डिल्यस्येति । पश्चाद्वेदान्त
१. परमसंहिता. २. शारी. २-३-१८।३. पञ्चरात्रे. ४. ऐतरेय ब्राह्मणे. ५-६. छा, ७-१-२, ३॥
For Private And Personal Use Only