________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाज्ये
[भ.२. एवं प्राप्ते प्रचक्ष्महेविज्ञानादिभावे वा तदप्रतिषेधः । २।२।४१॥
वाशब्दात्पक्षो विपरिवर्तते; विज्ञानं चादिचेति परब्रह्म विज्ञानादि। सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्पतिपादनपरस्य शास्त्रस्य प्रामाण्यं न प्रतिषिध्यते । एतदुक्तं भवति-भागवतप्रक्रियामाजनतामिदं चोयं-यज्जीवोत्पत्तिर्विरुद्धाऽभिहिता-इति। वासुदेवाख्यं परं ब्रह्मैवाश्रितवत्सलं स्वाश्रितसमाश्रयणीयत्वाय स्वेच्छया चतुर्धाऽवतिष्ठत इति हि तत्प्रक्रिया। यथा पौष्करसंहितायां १ "कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते । क्रमागतैस्वसंज्ञाभिः ब्राह्मणैरागमं तु तत्" इत्यादि । तच्च चातुरात्म्योपासनं वासुदेवाख्यपरब्रह्मोपासनमिति सात्वतसंहितायामुक्तं २" ब्राह्मणानां हि सद्ब्रह्मवासुदेवाख्ययाजिनाम् । विवेकदं परं शास्त्रं ब्रह्मोपनिषदं महत्" इति । तद्धि वासुदेवाख्यं परं ब्रह्म सम्पूर्णपागण्यवपुः सूक्ष्मव्यूहविभवभेदभिन्नं यथाधिकारं भक्तैः ज्ञानपूर्वेण कर्मणा अभ्यर्चितं सम्यक्प्राप्यते। विभवार्चनाड्यूहं प्राप्य व्यूहार्चनात्परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यत इति वदन्ति । विभवो हि नाम रामकृष्णादिप्रादुर्भावगणः। व्यूहो वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धरूपश्चतुय॒हः। मूक्ष्मं तु केवलषागुण्यविग्रहं वासुदेवाख्यं परब्रह्मायथा पौष्करे १“यस्मात्सम्यक्परं ब्रह्म वासुदेवाख्यमव्ययम् । अस्मादवाप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा" इत्यादि । अतस्सङ्कर्षणादीनामपि परस्यैव ब्रह्मणः स्वेच्छाविग्रहरूपत्वात् ३"अजायमानो बहुधा विजायते" इति श्रुतिसिद्धस्यैवाश्रितवात्सल्यनिमित्तस्वेच्छाविग्रहसङ्ग्रहरूपजन्मनोऽभिधानाचदभिधायिशास्त्रप्रामाण्यस्याप्रतिषेधः-इति । तत्र जीवमनोहङ्कारतत्त्वानामधिष्ठातारः
१. पौष्करसंहिता. २. सात्त्वतसंहिता. ३. पुरुषसू.
For Private And Personal Use Only