________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] पशुपत्यधिकरणम्
११३ स्य यतः" इत्यत्र प्रतिपादितम् । अतो वेदविरुद्धतत्त्वोपासनानुष्ठानाभिधानात्पशुपतिमतमनादरणीयमेव ॥ ३५ ॥
अधिष्ठानानुपपत्तेश्च । २॥ २॥ ३६॥ वेदबाह्यानामनुमानाद्धि केवलनिमित्तेश्वरकल्पना ; तथा सति दृष्टानुसारेण कुलालादिवदधिष्ठानं कर्तव्यम् । न च कुलालादेर्मुदायधिष्ठानवत्पशुपतेनिमित्तभूतस्य प्रधानाधिष्ठानमुपपद्यते, अशरीरत्वात् । सशरीरा. णामेव हि कुलालादीनामधिष्ठानशक्तिदृष्टा; नश्वरस्य सशरीरत्वमभ्युपगन्तव्यम्, तच्छरीरस्य सावयवस्य नित्यत्वे अनित्यत्वे च १“शास्त्रयोनित्वात्" इत्यत्र दोषस्योक्तत्वात् ॥३६॥
करणवच्चेन्न भोगादिभ्यः । २।२॥ ३७॥
यथा भोक्तुर्जीवस्य करणकलेबरायधिष्ठानमशरीरस्यैव दृश्यते ; तद्वन्महेश्वरस्याप्यशरीरस्यच प्रधानाधिष्ठानमुपपद्यत इति चेत्-न, भो. गादिभ्यः पुण्यपापरूपकर्मफलभोगार्थ पुण्यपापरूपादृष्टकारितं हि तदधिष्ठानम्। तत्पशुपतेरपि पुण्यपापरूपादृष्टवत्तया तत्फलभोगादि सर्व प्रसज्येत ; अतो नाधिष्ठानसम्भवः ॥ ३७ ।।
अन्तवत्त्वमसर्वज्ञता वा । २।२। ३८॥
वाशब्दश्चार्थे ; पशुपतेः पुण्यापुण्यरूपादृष्टवत्त्वे जीववदन्तवत्त्वं सृष्टिसंहाराद्यास्पदत्वमसर्वज्ञताच स्यादित्यनादरणीयमेवेदं मतम्, २ "विरोधे त्वनपेक्षं स्यात्" इत्यादिना वेदविरुद्धस्यानादरणीयत्वे सिद्धेऽपि पशुपतिमतस्य वेदविरुद्धताख्यापनार्थ “पत्युरसामञ्जस्यात्" इति पुन रारम्भः । यद्यपि पाशुपतशैवयोर्वेदाविरोधिन इव केचन धर्माः प्रतीय.
१. शारी. १-१-३॥ २. पू. मी. १-१-३ ॥
*15
For Private And Personal Use Only