________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४ वेदान्तदीपे
[अ. २. न्ते; तथापि वेदविरुद्धनिमित्तोपादानभेदकल्पनापरावरतत्त्वव्यत्ययकल्पनामूलत्वात् सर्वमसमजसमेवेति 'असामञ्जस्यात्' इत्युक्तम् ॥ ३८॥
इति श्रीशारीरकमीमांसाभाष्ये पशुपत्यधिकरणम् ॥ ७ ॥
वेदान्तसारे—पत्युरसामञ्जस्यात् । नेति वर्तते, पशुपतेर्मतमनादरणीयम् , वेदविरुद्धनिमित्तोपादानभेदतद्विरुद्धाचारपरत्वेन असामञ्जस्यात् ॥
__ अधिष्ठानानुपपत्तेश्च ॥ अनुमेयेश्वराभ्युपगमेन हि केवलाधिष्ठातृत्वमुच्यते ; तथासति अशरीरस्य प्रधानाधिष्ठानानुपपत्तेः, सशरीरत्वे तु शरीरोत्पत्त्यनिरूपणात् सावयवस्य तस्य नित्यत्वे महीमहीधरादीनामपि नित्यत्वाविरोधाश्च ॥ ३६॥
करणवच्चेन्न भोगादिभ्यः ॥ करणकलेबरायधिष्ठानवदशरीरस्यैवाधिष्ठानमितिचेत्-न, पुण्यपापनिमित्तत्वात्तस्य तत्फलभोगादिप्रसक्तेः ॥३७॥
अन्तवत्त्वमसर्वज्ञता वा ॥ तथा सति क्षेत्रशवत् अन्तवत्त्वमसर्वशता
च॥३८॥
इति वेदान् सारे पशुपत्यधिकरणम् ॥ ७ ॥
वेदान्तदीपे–पत्युरसामञ्जस्यात् । पशुपतिमतं निःश्रेयसार्थिभिरादरणीयम् , उत नेतिसंशयः । आदरणीयमिति पूर्वः पक्षः । परमपुरुषार्थसाधनावबोधित्वेन निखिलवस्तुसाक्षात्कारसमर्थपशुपतिप्रणीतत्वात् । राधान्तस्तु - अनादिनिधनाविच्छिन्नपाठसम्प्रदायनिरस्तप्रमादादिनिखिलदोषग - न्धवेदसिद्धपरावरतत्त्वव्यत्ययप्रतिपादनात् , निमित्तोपादानभेदाभिधानात्, सुराकुम्भस्थापनतत्स्थदेवतार्चनमुद्रिकाषट्कविज्ञानतद्धारणादिवेदविरुद्धाचारप्रतिपादनपरत्वाञ्च, असामञ्जस्यात् अनादरणीयमिति। सूत्रार्थस्तु-पत्युरसामञ्जस्यात् 'नैकस्मिन्नसम्भवात् ' इत्यतो नेत्यनुवर्तते । पत्युः पशुपतेः, मतम् अनादरणीयम् । कुतः वेदविरुद्धतत्त्वाचारावबोधित्वेन असामञ्जस्यात्॥
अधिष्ठानानुपपत्तेश्च ॥ अनुमेयेश्वराभ्युपगमेनहि प्रधानस्याधिष्ठानमीश्वरस्योच्यते। सशरीरस्यैव कुलालादेरधिष्ठानदर्शनात् अशरीरस्येश्वरस्य प्र
For Private And Personal Use Only