________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
श्रीशारीरकमीमांसामाग्ये
[अ. २. --..सिद्धान्तः).-..तत्रेदमुच्यते-पत्युरसामञ्जस्यात्-इति। “नैकस्मिन्नसम्भ. वात्" इत्यतो 'न' इत्यनुवर्तते । पत्युः-पशुपतेः, मतं नादरणीयम् । कुतः? असामञ्जस्यात् । असामञ्जस्यं च अन्योन्यव्याघातात् वेदविरोधाच । मुद्रिकाषदकधारणभगासनस्थात्मध्यानसुराकुम्भस्थापनतत्स्थदे वतार्चनगूढाचारश्मशा नभस्मस्नानप्रणवपूर्वाभिध्यानान्यन्योन्यविरुद्धानि। वेदविरुद्धंचेदं तत्त्वपरिकल्पनमुपासनमाचारश्च । वेदाः खलु परं ब्रह्म नारायणमेव जगन्निमित्तमुपादानंच वदन्ति-१" नारायण परं ब्रह्म तत्त्वं नारायणः परः । नारायण परो ज्योतिरात्मा नारायणः परः" २ "तदैक्षत बहु स्यां प्रजायेयेति" ३“सोऽकामयत बहु स्यां प्रजायेयेति" ४"तदात्मानं स्वयमकुरुत" इत्यादयः। परब्रह्मभूतपरमपुरुषवेदनमेव च मोक्षसाधनमुपासनं वदन्ति-५"वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमस स्तु पारे" ५"तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते" इत्यादिना एकतां गतास्सर्वे वेदान्ताः, तदितिकर्तव्यताभूतं कर्मच वेदविहितवर्णाश्रमसम्बन्धि यज्ञादिकमेव वदन्ति–६"तमेतं वेदानुवच. नेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" ६"एतमेव लोकमिच्छन्तः प्रवाजिनः प्रव्रजन्ति " इत्यादयः । केवलपरतत्त्वप्रतिपादनपरनारायणानुवाकसिद्धतत्त्वपराः केषुचिदुपासनादिविधिपरेणु वाक्येषु श्रुताः प्रजापतिशिवेन्द्राकाशप्राणादिशब्दा इति ७'शास्त्रदृष्टया तूपदेशो वामदेववत्" इत्यत्र प्रतिपादितम्। तथा ८"एको हवै नारायण आसीन ब्रह्मा नेशानः" इत्यारभ्य “स एकाकी न रमेत" इति सृष्टिवाक्योदितं स्रष्टारं नारायणमेव समानप्रकरणस्थाः ९" सदेव सोम्येदमग्रे" इत्यादिषु साधारणाः सद्ब्रह्मात्मादिशब्दाः प्रतिपादयन्तीतिर ० "जन्माद्य
१. तै. नारा. १३ ॥–२. छा. ६-२-३ ॥-३. ते. आन. ६. अनु. २ ॥४. तै. आन. ७॥५. पुरुषसू ॥-६ इ. ६-४-२२ ।।-७. शारी. १-१-३१ ॥-- ८. महोप. १-१॥-९. छा.१-२-१॥-१०. शारी. १-१-२ ॥
For Private And Personal Use Only