________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. २. ]
एकस्मिन्नसम्भवाधिकरणम्.
१०९
विकारतत्प्रयुक्तानित्यत्वादिदोषप्रसक्ते घटादितुल्यत्वप्रसङ्गात् ॥ ३३ ॥ अन्त्यावस्थितेश्वोभयनित्यत्वादविशेषः । २।२।३४॥
जीवस्य यदन्त्यं परिमाणं मोक्षावस्थागतम्, तस्य पश्चादेहान्तरपरिग्रहाभावादवस्थितत्वादात्मनश्च मोक्षावस्थस्य तत्परिमाणस्य चोभयोर्नित्यत्वात्तदेव आत्मनः स्वाभाविकं परिमाणमिति पूर्वमपि तस्मादविशेषः स्यात् । अतो देहपरिमाणत्वमात्मनो न स्यादित्यसङ्गतमेवेदमाईतमतम् ॥ ३४ ॥
इति श्रीशारीरकमीमांसाभाष्ये एकस्मिन्नसम्भवाधिकरणम् || ६ ||
Acharya Shri Kailassagarsuri Gyanmandir
"
वेदान्तसारे-नैकस्मिन्नसम्भवात् ।। अर्हतो मतं न युक्तिमत् एकस्मिन् वस्तुनि युगपत् सत्त्वासत्त्वनित्यत्वानित्यत्वभेदाभेदानाम् असम्भवात् । पर्यायरूपा द्रव्यस्यास्तित्वादिशब्दबुद्धिविषयाः परस्परविरुद्ध पिण्डत्य घटत्वकपालत्वाद्यवस्थाः युगपन्न सम्भवन्ति; तथा घटत्वशरावत्वावस्थाश्च पृथिव्यादेः प्रदेशभेदेन तथाच द्रव्यस्यानित्यत्वमुत्पत्तिविनाशयोगित्वम्, तद्विपरीतं नित्यत्वं नैकस्मिन् समवैति ॥ ३१ ॥
-
एवं चात्माकात्स्त्रयम् || आत्मनश्शरीरपरिमाणत्वे बृहतश्शरीरादल्पीयसि प्रविशतः अकात्नार्थ विकलत्वं प्रसज्येत ॥ ३२ ॥
न च पर्यायादप्यविरोधी विकारादिभ्यः । तथा सङ्कोचविकासावस्थायोगादपि नाविरोधः, घटादिवद्विकारादि योगप्रसक्तेः ॥ ३३ ॥
For Private And Personal Use Only
अन्त्यावस्थितेश्वोभयनित्यत्वादविशेषः || अन्त्यस्य मोक्षावस्थापरिमाणस्य एकरूपावस्थितेः तस्य स्वाभाविकत्वेनात्मतत्परिमाणयोरुभयोर्नित्यत्वे - न पूर्वत्रापि न विशेषः, विविधदेहपरिमाणत्वे वैकल्यं स्यादेव ॥ २४ ॥ इति वेदान्तसारे एकस्मिन्नसम्भवाधिकरणम् || ६ ||