________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११०
बेदान्तदीपे
[म. २.
>
वेदान्तदीपे - नैकस्मिन्नसम्भवात् ॥ जैनमतं युक्तिमत् उत नेति संशयः ; युक्तिमदिति पूर्वः पक्षः; जीवाजीवशब्दामिलपनीय भोक्तृ १ भोग्यात्मकं जगत् सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वैरनैकान्तिकम्; षड्द्रव्यतत्पर्यायात्मनावस्थितत्वात् कृत्स्नस्य जगतो द्रव्यात्मना सत्त्वैकत्वनित्यत्वानि उपपन्नानि ; पर्यायात्मना च विपरीतानि; पर्यायाश्च - घटत्व पटत्वाद्यवस्थाविशेषाः ; द्रव्यस्वरूपस्यैकत्वात् स्थिरत्वात् सद्बुद्धिबोद्ध्यत्वात् तेन रूपेणैकत्वादि युक्तम् ; पर्यायशब्दाभिधेयावस्थाविशेषाणामनेकत्वादस्थिरत्वादसद्धिबोध्यत्वातेन रूपेणासत्त्वानित्यत्वनानात्वानि युक्तानि ; प्रतीतिव्यवस्थाप्यत्वात् सर्वस्य वस्तुन उभयाकारप्रतीतेरुभयमुपपन्नम् । राद्धान्तस्तु - एकस्यास्तित्वनास्तित्वादिभिरनैकान्तिकत्वमयुक्तम्, एकस्मिन्वस्तुभ्यस्तित्वना स्तित्वादेः विरुद्धस्य च्छायातपवद्युगपदसम्भवात् । तथाहि द्रव्यस्य तद्विशेषणभूतपर्यायस्य इत्थंशब्दाभिधेयावस्थाविशेषस्य च " इदमित्थम्" इति प्रतीतेः प्रकारप्रकारितया पृथ+पदार्थत्वान्नैकस्मिन्विरुद्ध प्रकारभूत सत्त्वासत्त्वरूपधर्मसमावेशो युगपत्सम्भवति । उत्पत्तिविनाशाख्यपरिणामविशेषास्पदत्वं च द्रव्यस्यानित्यत्वम् ; तद्विपरीतं नित्यत्वं तस्मिन्कथं समवैति । विरोधिधर्माश्रयत्वं च भिन्नत्वम्, तद्विपरीतं चाभिन्नत्वं कथं वा तस्मिन्समवैति ; यथा अश्वत्वमहिषत्वयोः युगपदेकस्मिन्नसम्भवः । (एकस्य पृथिवीद्रव्यस्य घटत्वं शरावत्वं च प्रदेशभेदेन; न वेकेन प्रदेशेनोभयाश्रयत्वम् ; यथैकस्य देवदत्तस्योत्पत्तिविनाशयोगित्वं कालभेदेन । नह्येतावता वस्तुनो द्यात्मकत्वम् अपि तु परिणामशक्तियोगमात्रम्) अतः न युक्तिमत् जैनमतम् । सूत्रार्थस्तु नैकस्मिन्नसम्भवात् — न जैनमतं युक्तम्, कुतः ? एकस्मिन्वस्तुन्युक्तरीत्या युगपद्विरुद्धधर्मसमावेशासम्भवात् । अतस्सूत्रविरुद्धं वेदान्तवादिभिरपि भेदाभेदसमाश्रयणम् ॥ ३१ ॥ एवं चात्माकात्स्त्रर्यम् ॥ एवमात्माकात्स्नर्यश्चानुपपन्नम् ; शरीरपरिमाणत्वे ह्यात्मनो बृहतश्शरीरादल्पीयसि शरीरे प्रविशतः अकात्स्वर्यम् अपरिपूर्णत्वं प्रसज्यते । तदानीमल्पपरिमाणत्वात् ॥ ३२ ॥
1
न च पर्यायादप्यविरोधी विकारादिभ्यः । तथाविधाल्पत्वावस्थायोगेनाप्यविरोधो न सम्भवति । घटपटादेरिव विकारतत्प्रयुक्तदोषास्पदत्वप्रसङ्गात् ॥ ३३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ जीवस्य यदन्त्वं परि
१. भोग्यात्मकस्य जगतः सत्वा... भिन्नत्वैरनैकान्त्यम्, पा || ( ) कुण्डलितग्रन्थ : कचिन्न दृश्यते ॥
For Private And Personal Use Only