________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०८
श्रीशारीरकमीमांसाभाष्ये
अ. २.
र्युगपदेकस्मिन्नसम्भवः। अयमर्थः पूर्वमेव भेदाभेदवादिनिरसनसमये "ततु समन्वयात्" इत्यत्र पश्चितः। कालस्य पदार्थविशेषणतयैव प्रतीतेस्तस्य पृथगस्तित्वनास्तित्वादयो न वक्तव्याःः न च परिहर्तव्याः । का लोऽस्ति नास्तीति व्यवहारो व्यवहर्तॄणां जात्याद्यस्तित्वनास्तित्वव्यवहारतुल्यः । जात्यादयो हि द्रव्यविशेषणतयैव प्रतीयन्त इति पूर्वमेवोक्तम् । कथं पुनरेकमेव ब्रह्म सर्वात्मकमिति श्रोत्रियैरुच्यते?; सर्वचेतनाचेतनशरीरत्वात्सर्वज्ञस्य सर्वशक्तेस्सत्यसङ्कल्पस्य पुरुषोत्तमस्येत्युक्तम् । शरीरशरीरिणोस्तद्धर्माणाञ्चात्यन्तवैलक्षण्यमप्युक्तम् । किञ्च जीवादीनां षoणां द्रव्याणामेकद्रव्यपर्यायत्वाभावात्तेषु द्रव्यैकत्वेन पर्यायात्मना चैकत्वानेकत्वादयो दुरुपपादाः । अथोच्येत - षडेतानि द्रव्याणि स्वकीयैः पर्यायैः स्वेनखेन चात्मना तथा भवन्ति इति । एवमपि सर्वमनैकान्तिकमित्यभ्युपगमविरोधः, अन्योन्यतादात्म्याभावात् । अतो न युक्तमिदं जैनमतम् । ईश्वरानधिष्ठितपरमाणुकारणवादे पूर्वोक्तदोषास्तथैवावतिष्ठन्ते ।।
एव चात्माकार्त्स्यम् । २ । २ । ३२ ॥
एवं भवदभ्युपगमे सति आत्मनश्चाकात्स्यै प्रसज्यते । जीवोऽसङ्ख्यातमदेशी देहपरिमाण इति हि भवतां स्थितिः । तव इत्यादिशरी tsवस्थितस्यात्मनस्ततो न्यूनपरिमाणे पिपीलिकादिशरीरे प्रविशतोऽल्पदेशव्यापित्वेनाकार्त्स्न्ये प्रसज्यते - अपरिपूर्णता प्रसज्यत इत्यर्थः ॥ ३२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ सङ्कोचविकासधर्मतया आत्मनः पर्यायशब्दाभिधेयावस्थान्तरापच्या विरोधः परिहियत इत्युच्यते ; तत्वाह
न च पर्यायादप्यविरोधो विकारादिभ्यः | २|२|३३|| न च सङ्कोचविकासरूपावस्थन्तरापच्या विरोधः परिहर्ते शक्यते,
For Private And Personal Use Only