________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.२.] एकस्मिन्नसम्भवाधिकरणम्.
१०७ श्राष्टविधः-घातिकर्मचतुष्टयमघांतिकर्मचतुष्टयं चेति । तत्राय जीवगुणानां स्वाभाविकानां ज्ञानदर्शनवीर्यसुखानां प्रतिघातकरम् । अपरं शरी रसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखोपेक्षाहेतुभूतम्। निर्जरं मोक्षसाधनमर्हदुपदेशावगतं तपः । संवरो नामेन्द्रियनिरोधः समाधिरूपः । मोक्षस्तु निहत्तरागादिक्लेशस्य स्वाभाविकात्मस्वरूपाविर्भावः । पृथिव्यादिहेतुभूताश्चाणवो वैशेषिकादीनामिव न चतुर्विधाः । अपित्वेकखभावाः । पृथिव्यादिभेदस्तु परिणामकृतः । सर्व च वस्तुजातं सत्त्वासत्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वादिभिरनैकान्तिकमिच्छन्ति- स्यादस्ति,स्यान्नास्ति, स्यादस्तिचनास्तिच, स्यादवक्तव्यम्, स्यादस्तिचावक्तव्यं च, स्यानास्तिचावक्तव्यंच, स्यादस्तिच नास्तिचावक्तव्यं चेति सर्वत्र सप्तभङ्गीनयावतारात् । सर्व वस्तुजातं द्रव्यपर्यायात्मकमिति द्रव्यात्मना सत्त्वैकत्व'नित्यत्वाद्युपपादयन्तिः पर्यायात्मना च तद्विपरीतम् । पर्यायाश्च द्रव्यस्यावस्थाविशेषाः। तेषां च भावाभावरूपत्वात्सत्त्वासत्त्वादिकं सर्वमुपपन्नम् इति ॥ । अत्राभिधीयते-नैकस्मिन्नसम्भवात् इति। नैतदुपपद्यतेः कुतः ? एकस्मिन्नसम्भवात्-एकस्मिन्वस्तुनि अस्तित्वनास्तित्वादेविरुद्धस्य च्छायातपवद्युगपदसम्भवात्। एतदुक्तं भवति-द्रव्यस्य तद्विशेषणभूतपर्यायशब्दाभिधेयावस्थाविशेषस्य च पृथक्पदार्थत्वान्नैकस्मिन्विरुद्धधर्म समावेशस्सम्भवनि-इति । तथाहि-एकेनास्तित्वादिनाऽवस्थाविशेषेण विशिष्टस्य तदानीमेव न तद्विपरीतनास्तित्वादिविशिष्टत्वं सम्भवति । उत्पत्तिविनाशाख्यपरिणामविशेषास्पदत्वं च द्रव्यस्यानित्यत्वम् , तद्विपरीतं च नित्यत्वं नस्मिन् कथं समवैतिः विरोधिधर्माश्रयत्वं च भिन्नत्वम् तद्विपरीतंचाभिन्नत्वं कथं वा तस्मिन् समवैति?; यथाऽश्वत्वमहिषत्वयो
१. नित्यत्वान्युपपदायन्ति. पा ।।--२. समावेशसम्भवइति. पा ।।
For Private And Personal Use Only