SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ श्रीशारीरकमीमांसाभाष्ये अ. २. चकारात्तान्यपि यथार्थानीत्यभिप्रायः ॥ २८ ॥ न भावोऽनुपलब्धेः ॥ न केवलस्यार्थशून्यस्य ज्ञानस्य भावस्सम्भवति, क्वचिदप्यनुपलब्धेः। अबाधितप्रतीतिसिद्धस्यासद्भावे सति शानमात्रस्याप्यसद्भावो न शक्यते वारयितुमित्यभिप्रायः ॥ २९ ॥ इति वेदान्तदीपे उपलब्ध्यधिकरणम् ॥ ४ ॥ ...(श्रीशारीरकमीमांसाभाष्ये सर्वथानुपपत्त्यधिकरणम्॥५॥)... सर्वथानुपपत्तेश्च । २।२।३०॥ अत्र सर्वशून्यवादी माध्यमिकः प्रत्यवतिष्ठते। शून्यवाद एव हि सुगतमतकाष्ठा। शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्ताः। विज्ञानं बाह्यार्थाश्च सर्वे न सन्ति, शून्यमेव तत्त्वम् ; अभावापत्तिरेव च मोक्ष इत्येव बुद्धस्याभिषायः। तदेव हि युक्तम् शून्यस्याहेतुसाध्यतया स्वतस्सिद्धेः सत एव हि हेतुरन्वेषणायः तच्च सत् भावादभावाच नोत्पद्यते भावात्तावन्न कस्यचिदुत्पत्तिदृष्टाःन हि घटादिरनुपमृदिते पिण्डादिके जायते । नाप्यभावादुत्पत्तिस्सम्भवति, नष्टे पिण्डादिके ह्यभावादुत्पद्यमानं घटादिकमभावात्मकमेव स्यात् । तथा स्वतः परतश्वोत्पत्तिर्न सम्भवति, स्वतः खोत्पत्तावात्माश्रयदोषप्रसङ्गात् , प्रयोजनाभावाच्च । परतः परोत्पत्तौ परत्वाविशेषात्सर्वेषां सर्वेभ्य उत्पत्तिप्रसङ्गः । जन्माभावादेव विनाशस्याप्यभावः । अतः शून्यमेव तत्त्वम् । अतो जन्मविनाशसदसदादयो भ्रान्तिमात्रम् । नच निरधिष्ठानभ्रमासम्भवाद्भमाधिष्ठानं किश्चित्पारमार्थिकं तत्त्वमाश्रयितव्यम् , दोषदोषाश्रयत्वज्ञातवाद्यपारमार्थेऽपि भ्रमोपपत्तिवदधिष्ठानापारमार्थेऽपि भ्रमापपत्तेः । अतः शून्यमेव तत्त्वम् ॥ इति प्राप्ते उच्यते-सर्वथानुपपत्तेश्च-इति।सर्वथानुपपत्तेस्सर्वशून्यत्वं च For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy