SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] सर्वथानुपपत्यधिकरणम्. १०५ भवदभिप्रेतं न सम्भवति। किं भवान् सर्व सदिति वा प्रतिजानीते, असदिति वा,अन्यथा वा; सर्वथा तवाभिप्रेतं तुच्छत्वं न सम्भवति; लोके भावाभावशब्दयोस्तत्प्रतीत्योश्च विद्यमानस्यैव वस्तुनोऽवस्थाविशेषगोचरत्वस्य प्रतिपादितत्वात् । अतस्सर्व शून्यमिति प्रतिजानता सर्व सदिति प्रतिजानतेव सर्वस्य विद्यमानस्यावस्थाविशेषयोगितैव प्रतिज्ञाता भवतीति भवदभिमता तुच्छता न कुतश्चिदपि सिध्यति । किञ्च कुतश्चित्पमाणाच्छ्न्यत्वमुपलभ्य शून्यत्वं सिषाधयिषता तस्य प्रमाणस्य सत्यत्वमभ्युपेत्यम् । तस्यासत्यत्वे सर्व सत्यं स्यादिति सर्वथा सर्वशून्यत्वं चा नुपपन्नम् । इति श्रीशारीरकमीमांसाभाष्ये सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥ वेदान्तसारे-सर्वथाऽनुपपत्तेश्च ॥ सर्वशून्यवादश्च न सम्भवति । सदिति प्रतिज्ञायामसदिति प्रतिज्ञायाञ्च तुच्छता न सम्भवति, अनुपपत्तः, सदसदुद्धीनां वस्तुगतान्योन्यविरुद्धभावरूपावस्थाविशेषविषयत्वात् ॥ ३० ॥ इति वेदान्तसारे सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥ वेदान्तदीपे-सर्वथाऽनुपपत्तेश्च ॥ माध्यमिकोक्तसर्वशून्यवादस्संम्भवति, नेति संशयः । सम्भवतीति पूर्वः पक्षः । विज्ञानं घटादयश्च सर्वे भा. वा न सन्ति, कुतः! उत्पत्त्यनिरूपणात् घटादिभावानाम् । भावात्तावदुत्पत्तिन सम्भवति, नहि घटादिरुत्पद्यमानः असंमृदितेन मृत्पिण्डादिनोत्पद्यते । नाप्यभावात् , पश्चादभावादुत्पद्यमानो घटादिरभावात्मकएव स्यादिति सर्वशून्यत्वमेव युक्तिमत् । राद्धान्तस्तु-लोके भावाभावशब्दयोस्तद्वयोश्च प्रमाणेनोपलभ्यमानस्यैव वस्तुनः अवस्थाविशेष एव भावरूपो विषयः । वर्तमानतयोपलभ्यमानावस्थाविशेषो भावबुद्धिविषयः । तद्विरोध्यवस्थाविशेषः अभावषुद्धिविषयः। अतो न कुतश्चित्त्वदभिप्रेतं तुच्छत्वं सिद्ध्यति । सूत्रार्थस्तु-सर्वथानुपपत्तेच -सर्वशन्यवादी सर्व सदिति प्रतिक्षाय स्वाभिप्रेतं साधयति,उतासदिति प्रति *14 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy